________________
परि. ३ सू. ४१] स्याद्वादरत्नाकरसहितः साधनस्योपपत्तिरित्येवंरूपा ह्यन्तातिरत्र सन्दिह्यते । तत्संदेहतस्तु निश्चितयाऽपि बहिर्याप्त्या न किमपि भवतीति ॥ ३८ ॥ ___ अथ दृष्टान्तदूषणावसरप्राप्तयोरन्तर्व्याप्तिबहिर्व्याप्त्योः स्वरूपमाहपक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्त
याप्तिः, अन्यत्र तु बहियाप्तिरिति ॥ ३९॥ ५ अन्तरित्यन्तर एव । पक्षीकृते विषये साधनस्य साध्येन व्याप्तिरव्यभिचारोऽन्तातिरुच्यते । बहिः पक्षीकृताद्विषयादन्यत्र तु दृष्टान्तधर्मिणि तस्य तेन व्याप्तिर्बहिर्व्याप्तिरभिधीयते ॥ ३९॥
माभूदृष्टान्तवचनस्य परप्रतिपत्तिं प्रति सामर्थ्यमुपनयनिगमनयोस्तु तन्निवारयितुमशक्यमित्याशङ्कापनोदार्थमाहनोपनयनिगमनयोरपि परप्रतिपत्तौ सामर्थ्य, पक्ष
हेतुप्रयोगादेव तस्याः सद्भावादिति ॥४०॥
उपनयनिगमनयोरभिधास्यमानस्वरूपयोः । अपिः समुच्चये । न केवलं दृष्टान्तवचनस्येत्यर्थः । अपि च प्रयुज्यापि दृष्टान्तादिकं समर्थनं हेतोरवश्यं वक्तव्यम् । असमर्थितस्य तस्य परप्रतिपत्त्यङ्गत्वानुपपत्तेरिति तदेव परं परप्रतिपत्तिकारणतया कक्षीकर्तुं प्रेक्षावतां युक्तं न तु दृष्टान्तवचनादिकम् । सत्यपि तस्मिन्हेतुसमर्थनं विना परप्रतिपत्तेरभावात् ॥ ४०॥
एतदेवाहसमर्थनमेव परं परप्रतिपत्त्यङमास्तां, तदन्तरेण २०
दृष्टान्तादिप्रयोगेऽपि तदसम्भवादिति ॥ ४१ ॥ १ अत्र “ यथाऽनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः । " इति, "अग्निमानयं देशो धूमवत्त्वाद्य एवं स एवं यथा पाकस्थानम् ” इति च सूत्रद्वयं रस्नाकरावतारिकायामुपलभ्यते ।
"Aho Shrut Gyanam"