________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ३ सू. ३६
अमुमेवार्थं सूत्रेण व्यक्तीकुर्वन्नाहनियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्रयोगतो विप्रतिपत्तौ सत्यां तदन्तरापेक्षायामनव
स्थिते?र्निवारः समवतार इति ॥ ३६॥ ५ तदन्तरापेक्षायामिति विप्रतिपत्तौ सत्यां दृष्टान्तान्तरापेक्षायामित्यर्थः
॥३६॥
अथ तृतीयविकल्प दूषयन्नाहनाप्यविनाभावस्मृतये, प्रतिपन्नप्रतिबन्धस्य व्युत्प
नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धरिति ॥ ३७ ॥ १० अत्रापि दृष्टान्तवचनं प्रभवतीति योज्यम् ॥ ३७ ॥
अभिहितमेवार्थ द्रढयन्नाहअन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्तो
च बहिर्याप्तेरुद्भावनं व्यर्थमिति ॥३८॥ अन्तर्व्याप्तिबहिर्व्याप्ती अनन्तरमेव निरूपयिष्यमाणे । ततोऽ१५ यमर्थः–यदि हेतोरन्ताप्त्यैव साध्यप्रत्यायनसामर्थ्यमस्ति तदा
बहिर्व्याप्त्युद्भावनं व्यर्थम् । अस्त्यत्राग्निः सत्येवाग्नौ धूमोपपत्तेः । मत्पुत्रोऽयं बहिरवस्थितो वक्ति, अन्यथैवम्भूतम्बरानुपपत्तेरिति तथोपपत्त्यन्यथानुपपत्तिप्रयोगमात्रादेव व्युत्पन्नमतेः प्रतिपत्तुः - साध्यसिद्धेः
सम्पन्नत्वात् । अथाऽन्ताप्त्या हेतोः साध्यप्रत्यायनसामर्थ्य नास्ति । २० तदापि बहिर्याप्त्युद्भावनं व्यर्थमेव । एतस्याः स्त्रियो गर्भापत्यं पुमाने
तदपत्यत्वात्प्रसिद्धपुंस्त्वेतरापत्यवत्, इत्येवमादी हेतोर्बहिर्व्याप्तिसद्भावेऽप्यन्ताप्तेरभावे गमकत्वादर्शनात् । सत्येव पुंस्त्व एतदपत्यत्वाख्यस्य
"Aho Shrut Gyanam"