________________
परि. ३ सू. ३५] स्याद्वादरत्नाकरसहितः
५६९ तस्योपलभ्यमानत्वात् । नैतदस्ति । तत्र तथोपपत्तेरेवाभावात् । न हि सपक्षे सर्वत्र दर्शनमात्रं तथोपपत्तिरिति सङ्गिरामहे । किं तर्हि सत्येव साध्ये हेतोरुपपद्यमानत्वं तथोपपत्तिरिति । न चेयं प्रकृते हेतौ समस्ति । ततः परस्पराव्यभिचारित्वात्तथोपपत्त्यन्यथानुपपत्त्योरेकप्रयोगे द्वितीयप्रयोगस्य निरुपयोगित्वं युक्तमिति ॥ ३३ ॥ ५ ___ अथ यदुक्तं न दृष्टान्तादिवचनं परप्रतिपतेरङ्गमिति, तत्र दृष्टान्तवचनं तावन्निराचिकीर्षुस्तद्धि किं परप्रतिपत्त्यर्थ परैरङ्गीक्रियेत उत हेतोरन्यथानुपपत्तिनिर्णीतये, यद्वाऽविनाभावस्मृतय इति विकल्पेषु प्रथमं विकल्पं तावद्दषयन्नाहन दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, तस्यां पक्ष- १०
हेतुवचनयोरेव व्यापारोपलब्धेरिति ॥ ३४ ॥ न खलु वह्निमानयं देशो धूमवत्त्वान्यथानुपपत्तेरित्येतावति प्रयुक्ते प्रतिपन्नाविस्मृतप्रतिबन्धस्य प्रमातुः साध्यप्रतिपत्तिर्न भवतीति तं प्रति निरुपयोग एव दृष्टान्तस्य प्रयोग इति ॥ ३४ ॥ __ अथ द्वितीयविकल्पं दूषयन्नाहन च हेतोरन्यथानुपपचिनिर्णीतये, यथोक्ततर्क
प्रमाणादेव तदुपपत्तेरिति ॥ ३५॥ दृष्टान्तवचनं प्रभवतीति योगः ! अपि च । दृष्टान्तः प्रतिनियतव्यक्तिस्वरूपो भवति । यथाऽनौ साध्ये महानसादिः । तादृशस्य च तस्य वचनं कथमविनाभावनिश्चयार्थं स्यात् । प्रतिनियतव्यक्ती तन्नि- २० श्वयस्य कर्तुमशक्तेः । ततो व्यक्त्यन्तरेषु व्याप्त्यर्थं पुनर्दृष्टान्तान्तरं मृग्यम् । तस्याऽपि व्यक्तिरूपत्वेनापरापरदृष्टान्तापेक्षायामनवस्था स्यात् ।
१प्र. न. प. ३ स. २८.
"Aho Shrut Gyanam"