________________
५६०
प्रमाणनयतत्त्वालोकालङ्कारः (परि. ३ सू. २९ सूत्रेणैव । ताभ्यामन्वयव्यतिरेकस्वरूपाभ्यां हेतोः प्रयोगो विभेदः।।२९॥
तथोपपत्त्यन्यथानुपपत्त्योरेव स्वरूपं सूत्रद्वयेन विस्पष्टीकर्तुमाह-- सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिरिति ॥३०॥ असति साध्ये हेतोरनुपपत्तिरेवान्यथानुपपत्तिरिति
॥३१॥ प्राग्वत् ॥ ३० ॥ ३१ ॥
अथ तथोपपत्त्यन्यथानुपपत्तिप्रयोगौ व्यक्तीकरोतियथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे
धूमवत्त्वस्योपपत्तेरसत्यनुपपत्तेवेति ॥ ३२ ॥ १० अदोऽप्युत्तानार्थम् ॥ ३२॥
अथ तथोपपत्त्यन्यथानुपपत्त्योः प्रयोगनियमनार्थमाह--- अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय
प्रयोगस्यैकत्रानुपयोग इति ॥ ३३ ॥ ___ अनयोस्तथोपपत्त्यन्यथानुपपत्त्योर्मध्यादन्यतरस्याः प्रयोगेणैव साध्य१५ प्रतिपत्तौ सत्यां द्वितीयस्याः प्रयोगस्यैकत्र साध्ये नैरर्थक्यम् ।
द्वयोरपि परस्पराव्यभिचारित्वात् । इदमत्रैदम्पर्यम् । प्रयोगयुगलेऽपि वाक्यविन्यास एव विशिष्यते न पुनरर्थः । प्रयोगस्य च साध्यसाधनं
फलम् । तच्च यद्यन्यतरप्रयोगेणैव कृतम् । तदा द्वितीयप्रयोगः प्रयो८ कुरपाटवमेव प्रकटयति । निष्फलत्वादिति । ननु तथोपपत्त्यन्यथानुप२० पत्योः परस्पराव्यभिचारित्वमसिद्धम् । कचित्तथोपपत्तिनिश्चयेऽप्यन्यथानुषपत्तेरसिद्धेः । तथा हि प्रयत्नानन्तरीयके शब्दे साध्ये कादाचिकत्वं हेतुत्वेनोपादीयमानं सपक्षे घटादौ सर्वत्रास्तीति तथोपपन्नमप्यन्यथानुपपत्तिविकलम् । अप्रयत्नानन्तरीयके विद्युदादौ विपक्षेऽपि
"Aho Shrut Gyanam"