________________
परि. ३ सू. २९] स्याद्वादरत्नाकरसहितः पक्षदरत्नाकरसाहतः
५५९ पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरडं न
दृष्टान्तादिवचनमिति ॥ २८ ॥ उक्तस्वरूपपक्षहेतुवचनात्मकमवयवद्वयमेव परार्थानुमानवाक्यस्य भागयुग्ममेव । प्रतिपाद्यबोधस्य कारणं न दृष्टान्तादिवचनं, आदिशब्देनोपनयनिगमनादिग्रहः । एवं चसव्याप्तिदृष्टान्तवचस्ततो हेतूपसंहृतिः ॥ वैपरीत्येन वेत्येवं व्यंशं बौद्धैन्य॑गादि यत् ॥ ५०९ ॥ व्यवयवमनुमानं कल्पयामासिवांसः ___ कपिलमुनिमतस्था ये तथा जैमिनीयाः ॥ गदितमवयवैर्यत्पञ्चभिर्योगशिप्यै
रपि सुनिपुणनीत्या तन्निरस्तं समस्तम् ॥ ५१० ॥ पक्षहेतुलक्षणावयवद्वयनियमाभ्युपगमश्चायं व्युत्पन्नमतिप्रतिपाद्यापेक्षया द्रष्टव्यः । यतोऽभिधास्यति-" मन्दमतीस्तु व्युत्पादयितुम्" इत्यादि ॥ २८॥ ___ अथ हेतुप्रयोगस्य द्वैविध्यं दर्शयन्नाहहेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकार
इति ॥ २९॥ तथैव साध्यसद्भावप्रकारेणैव हेतोरुपपत्तिः तथोपपत्तिः । “साधनं कृता बहुलम् ” इति समासः । अवधारणस्य समासार्थेऽनुभूत- २० स्वादप्रयोगः । यथा दध्योदनादिषूपसिक्तादीनाम् । अन्यथां साध्याभावप्रकारेण हेतोरनुपपत्तिरन्यथानुपपत्तिः । अन्नापि समासः प्रागुक्त
१प्रमाणनय. प. ३ स. ४२ । २' कतृकरणे कृता बहुलम्' इति पा. स. २॥१॥३२॥
"Aho Shrut Gyanam"