________________
५५८
प्रमाणनयतस्वालोकालङ्कारः
[ परि. ३ सु. २६
हि अनुमानप्रतीतमर्थं प्रत्याययन्नग्निरत्र धूमान्यथानुपपत्तेरित्यादिकं वचनयति । प्रत्पक्षप्रतीतं पुनरर्थं संदर्शयन् -
I
पश्याऽयं सुसखे विपक्षरमणी वैधव्यदीक्षागुरुनम्राशेषनरेशशीर्षसरसि प्रेमा भोरुहः ॥
माद्यत्कुञ्जरकन्धरामधिगतः श्वेतातपत्राञ्चित
श्चञ्चच्चामरयुग्मरम्यविभवः कश्चिन्नृपो गच्छति || ५०७ ||
--
१."
इत्यादि ब्रवीति । ततश्च वचनाविप्रकारादपि प्रतिपाद्यस्य प्रत्यक्षानुमेयार्थगोचरा यतः प्रतिपत्तिराविर्भवति ततः प्रत्यक्षानुमानयोरुभयोरपि परार्थत्वमविरुद्धमेव । यथोक्तम् - " प्रत्यक्षेणानुमानेन प्रसिद्धार्थ१० प्रकाशनात् ।। परस्य तदुपायत्वात्परार्थत्वं द्वयोरपि ॥ १ ॥ इति । परस्येति प्रत्याय्यस्य । तदुपायत्वादिति प्रतिपादकस्थप्रत्यक्षानुमाननिर्णीतार्थप्रकाशनकारणत्वात् । द्वयोरिति प्रत्यक्षानुमानप्रभववचनयोरिति ॥ २६ ॥
अथ स्पष्टप्रतिपत्त्यर्थं सूत्रत एव परार्थप्रत्यक्षोल्लेखमाह -
१५ यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभारिणी जिनपतिप्रतिमामिति ॥ २७ ॥
२०
व्यक्तार्थमदः । एवं स्मरणादेरपि यथासम्भवं पारार्थ्यं प्रतिपत्तव्यम्, तथा ह्येवं वक्तारो भवन्ति स्मरसि चैत्र कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामह इति ।
न्यायदिव्यं समादाय प्रतिष्ठां प्रापदुत्तमाम् ||
तस्मात्प्रत्यक्षमानस्य पारार्थ्यमनुमानवत् ॥ ५०८ ॥ २७ ॥ उक्तं प्रासङ्गिकं परार्थं प्रत्यक्षम् अथ यदुक्तं पक्षहेतुवचनात्मकं परार्थमनुमानमिति तत्समर्थयते
"
१ न्यायावतारे श्लो. ११ ।
-
" Aho Shrut Gyanam"