________________
परि. ३ सू. २६ ]
स्याद्वादरत्नाकरसहितः
I
नोपन्यासादेव हि हेतोः सामर्थ्यलव्धत्वात्तद्वचनमनर्थकमेवेति । हेतोरवचने कस्य नाम समर्थनमिति चेत् । तर्हि पक्षस्याऽप्यप्रयोगे क नाम हेतुः साध्यं साधयत्वित्यनिवार्यः पर्यनुयोगः । अथ विवादादेव गम्यमाने प्रतिज्ञाविषयेऽनुच्यमानेऽपि हेतुः साध्यं साधयिष्यतीत्युच्यते । तर्हि गम्यमानस्य हेतोरपि समर्थनं भविष्यतीत्यप्युच्यतामविशेषात् । गम्यमानस्यापि हेतोर्मन्दमतिप्रतिपत्त्यर्थं वचनमिति चेत् । तर्हि तदर्थमेव पक्षवचनमप्यस्तु । समानयोगक्षेमत्वात् । ततः साध्यसिद्धिमभिवान्ता हेतुवचनमिव पक्षवचनमपि स्वीकर्त्तव्यम् । पक्षहेतुवचनयोरेवानुमानाङ्गत्वेन वक्ष्यमाणत्वादिति ॥ २५ ॥
I
इहानुमानस्यैव पारार्थ्यं परे प्रतिपन्नवन्तो न प्रत्यक्षस्येत्यनुमान - १० पारार्थ्यव्यवस्थापनप्रसङ्गेन तान्प्रति प्रत्यक्षस्यापि पारार्थ्यं व्यवस्था
पयन्नाह -
प्रत्यक्षपरिच्छिन्नार्थाभिधायि वचनं परार्थं प्रत्यक्षं परप्रत्यक्ष हेतुत्वादिति ॥ २६ ॥
५५७
प्रत्यक्षपरिच्छिन्नार्थाभिधायि, अध्यक्ष वीक्षितवस्तुप्रतिपादकं यद्वचनं १५ तत्परार्थं प्रत्यक्षमुच्यते । ननु वचनं कुतः प्रत्यक्षं जडस्वभावत्वात्तस्येत्याशङ्कायामाह - परप्रत्यक्षहेतुत्वात् । प्रतिपाद्यगतप्रत्यक्षप्रकाशनिमित्तत्वादुपचारेणेत्यर्थः । उपचारस्य चात्र प्रयोजनं परार्थानुमानवदवसेयम् । यत्तु बौद्धेनाभिधीयते न प्रत्यक्षविषयः स्वलक्षणात्मा परेभ्यः कथयितुं कथमपि शक्यत इति । तदनुपपन्नम् । निर्विकल्पक प्रत्यक्ष- २० प्रतिक्षेपेण स्थिरस्थूरार्थव्यवसायिनः प्रत्यक्षस्याधस्तात्समर्थितत्वात् । तद्विषयस्य कथञ्चिद्विकल्पगम्यत्वेन शब्दप्रतिपाद्यस्वभावत्वात् । ततो यथानुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानमुच्यते तथा प्रत्यक्षप्रतीतोऽपि परार्थं प्रत्यक्षमित्युच्यताम् । परप्रत्यायनस्योभयत्राप्यविशिष्टत्वात् । वचनव्यापारस्यैव भेदात् । तथा २५
" Aho Shrut Gyanam"