________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ स. २३ मयैवं विवक्षितत्वादिति यदोच्यते तदा सिद्धयत्यर्थशून्यं विवक्षामात्रम् । न पुनर्वस्तु । तदिच्छाया वस्तुवृत्तिनियमाभावात् । प्रत्यक्षबाधितं ह्येतद्यत्र तदिच्छा तत्र वस्तुभाव इति । तथा च व्याप्त्यसिद्धेय॑भिचारः। एतेन मदुपगमादयोऽपि न हेतव इत्युक्तं भवति । ततो नाऽनर्थरूप५ लिङ्गवचनमपि परार्थमनुमानमिति सिद्धम् ॥ .
तत्पक्षहेतोर्वचनस्वरूपं गतं प्रतिष्ठामनुमानमेतत् ॥ परार्थसंज्ञं च सुतर्कविज्ञा वादे यदङ्गं प्रथमं गदन्ति ॥५०६॥२३॥
इदानी सूत्रत एव पक्षवचनं द्रढयन्नाह - साध्यस्य प्रतिनियतधर्मिधर्महेतोरुपसंहारवचनवत्प१०. क्षप्रयोगोऽप्यवश्यमाश्रयितव्य इति ॥ २४ ॥
अयमर्थः-यत्र धूमस्तत्र वह्रिरित्यादिना साध्यव्याप्तसाधनप्रदर्शनेन हेतोः सामान्येनाधारप्रतिपत्तावपि पर्वतादिविशिष्टधर्मिधर्मताधिगतये धूमश्चात्रेत्येवंरूपमुपसंहारवचनमवश्यमाश्रीयते यथा ताथागतैः , तथा
साध्यधर्मस्य प्रतिनियतधर्मिताप्रतिपत्तये पक्षप्रयोगोऽप्यवश्यमाश्रयितव्य १५ इति ॥ २४ ॥ .
- अमुमेवार्थ परोपालम्भच्छलेन समर्थयमानः प्राह--- त्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः
कः खलु न पक्षप्रयोगमडीकुरुत इति ॥ २५॥
- त्रिविधं कार्यस्वभावानुपलब्धिभेदेन साधनमभिधायैव न तु पक्ष२० वदनुक्त्वेत्यर्थः । तत्समर्थनं तस्य साधनस्य समर्थनमसिद्धतादोषपरि
हारेण स्वसाध्यसाधनसामर्थ्यप्ररूपणप्रवचनं विदधानः कः खलु नं पक्षप्रयोगमङ्गीकुरुते किन्तु सर्व एव प्रामाणिकः स्वीकुरुत इत्यर्थः । ने ह्यसमर्थितो हेतुः साध्यसिद्धयङ्गम् । अतिप्रसङ्गात् । ततः पक्षप्रयोगमनङ्गीकुर्वता सौगतेन हेतुमनुक्त्वैव तत्समर्थनं विधेयम् । समर्थ
"Aho Shrut Gyanam"