________________
५५५
परि. ३ सू. २३] स्याद्वादरलाकरसाहतः विरोधाभावात् । एवं ह्यचेतनत्वेनोत्पत्तिमत्त्वं व्याप्तं भवेद्यदि चैतन्येन तस्य विरोधः स्यान्नान्यथा । न चैवमिति । नतो प्रसङ्गतद्विपर्ययौ गमको भवतस्तर्हि कथं तौ गमका विति चेत् । एकान्तैकरूपस्य सामान्यस्य प्रतिनियतपदार्थाधेयस्वभावादपरस्य स्वभावरग्राभावेनान्यपदार्थाधेयत्वासम्भवात्तद्भावस्य तदभावस्य चान्योऽन्यपरिहारस्थित- ५ लक्षणत्वेन विरोधादिति नागमात्परेणैव ज्ञातस्य लिङ्गस्य वचनं परार्थानुमानम् ॥ नाप्यनर्थरूपस्य । यथाऽनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद्धटव
दिति । न ह्यत्र शब्दघटयोर्वास्तवी प्रत्यासत्तिअनर्थरूपलिङ्गवचनं परा
नमानमित्यस्य रपि तु वक्तृविचक्षामात्रकृता । तदभावे विव- १०
खण्डनम् । क्षिते तयोरासत्तिविप्रकर्षाभावात् । तावद्धि घटः प्रत्यासन्नः शब्दस्य शब्दघटरूपसमुदायावयवत्वादिप्रकृष्टं चाकाशतत्समुदायाबाह्यत्वाद्यावदनित्यत्वं साघयितुं विवक्षति प्रेक्षते । यदा तु न विवक्षति तदा तयोरासत्तिविप्रकर्षों विवर्तेते । वस्तुस्वभावत्वे पुनरनयोविवक्षान्तरेऽपि न परावृत्तिभवेत् । भवति च नित्यः शब्दः पक्षसप- १५ क्षयोरन्यतरत्वादाकाशवदित्यत्राकाशस्यासन्नत्वाद्धटस्य तु विप्रकर्षात् । किं च यदा द्वाभ्यां परस्परविरुद्ध नित्यत्वानित्यत्वे साधयितुमिष्यते तदा स एव घटः प्रत्यासन्नो विप्रकृष्टश्चाकाशमपि । न च युगपदेकत्र वस्तुनि विरुद्धयोधर्मयोरासत्तिविप्रकर्षयोरुपसंहारयोगः । तस्मादेते कर्तुरिच्छामात्रनिरोधिनो धर्मा न वस्तुस्वभावमनुविदधति । २० इच्छानुसारेण वस्तुनो वृत्त्यभावात् । तथात्वे हि न कश्चिद्दरिद्रः स्यात् । तस्मान्न ततोऽर्थसिद्धिः । वस्तुरूपयोः प्रत्यासत्तिविप्रकर्षयो. रसिद्धेः । सिद्धौ तु स्याद्दोषो यथा यादृशं रूपसाधर्म्य विषाणित्वं न व्यभिचरति तादृशमभिसमीक्ष्याभिधीयते, एष पिण्डो विषाणी गोगवययोरन्यतरत्वात् । अत्र हि साधर्म्यविशेषो गोगवयसमुदायैकदेशत्वं २५ वास्तवं प्रत्यक्षमेव तेन सिध्यत्येव विषाणित्वम् । तया नित्यः शब्दो
"Aho Shrut Gyanam"