________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २३ यदुच्यते योगैः-तद्देशत्वमप्रतिषिध्यैवान्यदेशत्वं समुच्चीयते तद्देशश्चायमित्यादि, तन्निरस्तम् । एकदेशस्थत्वस्यान्यदेशस्थत्वपरिहारणावस्थानादिति । सिद्धमनेकत्र वृत्तेरनेकत्वं व्यापकं तद्विरुद्धं च सर्वथैक्यं सामान्ये त्वयाऽभ्युपगम्यते ततो नाऽनेकवृत्तित्वं स्याद्विरोध्यैक्यसद्भावेन ब्याप्येन ५ व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेकवृत्तित्वस्याऽवश्यं निवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्यातोपलब्धिरूपोऽत्र मौलो हेतुः । यथा यदनेकवृत्ति तदनेकमनेकवृत्ति च सामान्यमिति । एकत्वस्य हि विरुद्धमनेकत्वं तेन व्याप्तमनेकवृत्ति
त्वं तस्योपलब्धिरिह । मौलत्वं चास्यैतदपेक्षयैव प्रसङ्गस्योपन्यासात् । न १० चायमुभयोरपि न सिद्धः । सामान्ये जैनयोगाभ्यां तदभ्युपगमात् ।
ततोऽयमेव मौलो हेतुरयमेव वस्तुनिश्चायकः । ननु यद्ययमेव वस्तुनिश्चायकः कक्षीक्रियते तर्हि किं प्रसङ्गोपन्यासेन प्रागेवायमेवोपन्यस्थताम् । निश्चयाङ्गमेव हि ब्रुवाणो वादी वादिनामवधेयवचनो भव
तीति चेत् । तदसत् । मौलहेतुपरिकरत्वादस्य । अवश्यमेव हि प्रसङ्गं १५ कुर्वतोऽर्थः कश्चिन्निश्चाययितुमिष्टः । निश्चयश्च सिद्धहेतुनिमित्त इति
यत्सूत्रसिद्धो हेतुरिष्टस्तस्य व्याप्यव्यापकमावसाधने प्रकारान्तरमेतत् । यत्सर्वथैकं तन्नानेकत्र सम्बध्यत इति व्यातिदर्शनमपि हि बाधकं विरुद्धधर्माध्यासमाक्षिपतीत्यन्योऽयं साधनप्रकारः । नन्वेवं प्रसङ्गेऽङ्गी
क्रियमाणे बुद्धिरचेतना, उत्पत्तिमत्त्वादित्ययमपि साहयेन ख्यापितः २० प्रसङ्गहेतुर्भविष्यति । तथा हि यदि बुद्धिरुत्पत्तिमती भवद्भिरभ्युपगम्यते
तदानी तव्यायकमचैतन्यमपि तस्याः स्यान्न चैवमतो नोत्पत्तिमत्यपीयमिति चेत् । तदसत् । प्रसङ्गविपर्ययहेतोम्मौलस्य चैतन्याख्यस्य साथानां बुद्धावपि प्रतिषिद्धत्वात् । तैः प्रधानधर्मतया तस्या अचैतन्य
स्वीकारात् । चैतन्यस्वीकारेऽपि नाऽनयोः प्रसङ्गतद्विपर्यययोर्गमकत्वम् । २५ अनेन प्रसङ्गेनात्र प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्मा
ध्यासस्य विपक्षे बाधकप्रमाणस्यानुपस्थानात् । चैतन्योत्पत्तिमत्त्वयो
"Aho Shrut Gyanam'