________________
परि ३ सू. २३ ] स्याद्वादरत्नाकरसहितः भवति नाविद्यमानोऽपि प्रतीतिमात्रेण । यतः परोपगमेन सिद्धिः स्यात् । ननु च साधनमर्थप्रतीत्युपाय: । उपायश्च हेयः " उपाया अपि ये हेयास्तानुपायान्प्रचक्षते " इति वचनादिति । सताऽसता चोपायेन सन्नर्थः प्रतिपत्तव्यः साध्यः । इह च यदि नामोत्पत्तिमत्त्वमनित्यत्वं वाऽसदेव तथापि तस्माद्यत्प्रतिपत्तव्यं तत्सदेवेति चेत् । तदसत् । सतोऽपि ५ ह्यवस्तुकृता प्रतिपत्तिरसत्प्रतिपत्ति नातिशेते । यथा हि विभ्रमकारणात्प्रतिपत्तिरुत्पद्यमाना सन्दिग्धविषया तद्वदवस्तुकृताऽपि सा ततोऽप्यर्थस्य सन्दिग्धविषयैवाप्रमाणकत्वेनोभयत्रापि विशेषाभावादिति न परप्रसिद्धया साधनमभिधानीयम् । नन्वेवं कथं भवद्भिः परपरिकल्पितैर्धर्मधर्मान्तरस्य प्रसङ्गः क्रियते । यथा यत्सर्वथैकं तन्नानेकत्र सम्बध्यते । तथा च १० सामान्यमिति कथमनेकव्यक्तिवर्ति स्यादनेकव्यक्तिवर्तित्वाभावव्यापकमन्तरेण सर्वथैक्यस्य व्याप्यस्यानुपपत्तेरिति । अत्र हि वादिनः स्याद्वादिनः सर्वथैक्यमसिद्धमिति कथं धर्मान्तरस्यानेकवर्तित्वाभावस्य गमकं स्यादिति चेत् । तदसम्बद्धम् । एकधर्मोपगते धर्मान्तरोपगमसन्दर्शनमात्र. तत्परत्वेनास्य वस्तुनिश्चायकत्वाभावात् । प्रसङ्गविपर्ययरूपस्यैव मौल- १५ हेतोस्तन्निश्चायकत्वात् । प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवर्तित्वस्य हि व्यापकमनेकत्वम् । एकान्तिकरूपस्यानेकव्यक्तिवर्तित्वविरोधात् । तथा हि- यस्मिन्परिच्छिद्यमाने यदवच्छिद्यते तयोः परस्परतो विरोधः । मुण्डदेशे यत्खण्डदेशाभावाव्यभिचारिगोत्वरूपं स्थितं तल्खण्डदेशानाहितत्वात्तद्रूपप्रच्युतिमत्, यञ्च खण्डदेशे २० मुण्डदेशाभावाव्यभिचारिगोल्वरूपं तदपि मुण्डदेशानाहितत्वात्तद्रूपप्रच्युतिमत्ततस्तस्य मुण्डदेशाधेयत्वेन परिच्छिद्यमाने खण्डदेशाधेयत्वमव• च्छिद्यते तत्र वा परिच्छिद्यमाने यदवच्छिद्यत इति तद्देशान्यदेशयोस्तद्देशाधेयत्वानाधेयत्वे विरोधिनी । सामान्यस्य हि यत्खण्डदेशस्थित रूपं तदपेक्षया तद्देशावस्थितरूपापेक्षया च तस्यैव तद्देशानाधेयत्वं २५ कथं नाम भवेत् । एवमन्यदेशापेक्षयाऽपि भावनीयम् । ततो
"Aho Shrut Gyanam"