________________
५५२
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ३ सू. २३
प्रसिद्धिपरीक्षया साधनस्य । तथा च युक्तमिदमनुमानम् । अचेतना बुद्धिरुत्पत्तिमत्त्वादनित्यत्वाद्वा घटादिवदिति । इहासत उत्पादे उत्पत्ति . मत्त्वं सतश्च नाशोऽनित्यत्वं यो हेतुरुपात्तः स सालयस्य स्वयमसिद्धः । स हि सत एवाविर्भावतिरोभावावुत्पादविनाशावाह । परस्य ५ तु जैनस्य सिद्धः। पर्यायाणामुत्पादविनाशस्वीकारात् । तदनुपपन्नम् ।
अनुमानोपन्यासप्रस्तावे, आगमस्य प्रामाण्याङ्गीकरणानुपपत्तेः। विप्रतिपन्नयोर्वादिप्रतिवादिनोः परस्पराधिगमाधिक्षेपेण प्रवृत्तेः । प्रामाण्योपपत्तौ पुनरनुमानस्य प्रवृत्तिरेव न स्याद्वचनमात्रेणैवार्थसिद्धेः साधनोप
न्यासवैयर्थ्यात् । अथ विप्रतिपन्नस्योत्पत्तिमत्त्वादिर्वनचविशेषः प्रमाण १० न बुद्धयचैतन्यादिवचनमपीति चेत् । ननु कोऽयं वचनस्य विशेषः ।
संवादित्वमिति चेत् । तर्हि यत्र संवादस्तत्प्रमाणसिद्धमेव । न च प्रमाणसिद्धं परस्यैव सिद्धं नाम । तम्माद्वादिना प्रतिवादिना च प्रथममर्थः परीक्षणीयस्ततोऽस्याभ्युपगमः कर्त्तव्यः । तथा च नापरोप
गतेन हेतुना कस्यचिदर्थस्य सिद्धिः । प्रमाणपरीक्षितस्य द्वाभ्यामपि १५ कक्षीकारार्हत्वात् । तदितरस्य तु द्वयोरप्युपेक्षाक्षेत्रत्वात् । स्यादेतत् ।
न्याय्या प्रवृत्तिरीदृशी यत्परीक्षोत्तरकालमभ्युपगमः किन्तु कश्चिन्मूढोऽ. भिनिवेशपारवश्यात्परीक्षायाः पूर्वमेवागममभ्युपैति तदपेक्षयाऽभ्युपगतसाधननिमित्ता परीक्षा क्रियते । सत्यमेतत् । परं यदैव चैतन्यस्वरूपनि
राचिकीर्षितधर्माश्रयस्यागमस्य बाधनाय परं प्रति साधनमुच्यते तदैवा२० स्यागमस्य प्रमाणेन बाध्यमानत्वात्कथमागमत्वं स्यात् । अयमर्थः
अभ्युपगतागमदूषणं परेण क्रियमाणं तितिक्षमाण एव परित्यक्तवांस्तदभ्युपगमं नहि तम्यागमस्य दूषणमाकर्णयन्नसंशयितो नाम । यत्र च संशयस्तस्य प्रामाण्याभ्युपगमत्यागो नियमेनैव । तस्मायेनापि ग्रहात्प
रीक्षितुकामेन तदभ्युपगमो न परित्यक्तस्तेनापि दूषणश्रवणं सहमानेन २५ परित्यक्तव्यः । ततो यथाऽयं वादिनोऽसिद्धस्तत्प्रतिवादिनोऽप्यसिद्धः ।
तथा च विद्यमान एवार्थः साध्यनान्तरीयकतया निश्चितोऽर्थान्तरगमको
"Aho Shrut Gyanam"