________________
परि..३ सू. २३ ] स्याद्वादरत्नाकरसहितः । चीनसाधनात्स्वपक्षसाधने क्रियमाणे तद्विपक्षाप्रसाधकत्वतस्तत्प्रयोगस्य तत्प्रतिबन्धकत्वानुपपत्तेः । किं च प्रतिज्ञायाः प्रयोगार्हत्वे शास्त्रादावप्यसौ न प्रयुज्येत । विशेषाभावात् । न हि शास्त्रे प्रतिज्ञा न प्रयुज्यत एवानियतकथायां वा । अग्निरत्र धूमाक्षोऽयं शिंशपात्वादित्यादिवचनानां शाक्यशास्त्रेऽपि दर्शनात्, विरुद्धोऽयं हेतुरसिद्धोऽयमित्यादिवचनानाम- ५ नियतकथायां प्रयोगात् । परानुग्रहप्रवृत्तानां शास्त्रकाराणां प्रतिपाद्यावबोधनाधीनधियां शास्त्रे प्रतिज्ञाप्रयोगो युक्तिमानेवोपयोगित्वात्तस्येति चेत् । वादेऽपि सोऽस्तु । तत्रापि तेषां तादृशत्वात् । वादे जिगीषुप्रतिपादनायाचार्याणां प्रवृत्तेः प्रतिज्ञायाः प्रयोगो न युक्तः । तद्विषयस्या
र्थाद्गम्यमानत्वान्निगमनादिवदिति चेत् । तर्हि तत एव शास्त्रेऽपि १० तस्याः प्रयोगो मा भवतु । न हि तत्र जिगीषवो न प्रतिपाद्याः प्रतिज्ञा विषयो वा सामर्थ्यान्न गम्यते । अजिगीषूणामपि शास्त्रे प्रतिपाद्यत्वात्प्रतिज्ञाया अप्रयोगे केषाञ्चिन्मन्दाधियां प्रकृतार्थप्रतिपत्तिर्न स्यादिति तत्प्रतिपत्तये तत्र तस्याः प्रयोगो युक्त एवेति चेत् । वादे जिगीषवः किं मन्दमतयो न सन्ति येन प्रतिज्ञाप्रयोग विना तदर्थ- १५ मप्रतिपद्यमानानां तेषां प्रतिपत्तये प्रयोगो न स्यादिति । शास्त्रे वादे वा प्रतिज्ञाया अभिधानमनभिधानं वाऽभ्युपगन्तव्यमविशेषेणैवति । हेतुगोचरमतश्च दीपयन्पक्षकीर्तनमुपेयतां बुधैः ॥ अन्यथा हि कथमत्र संशयो मन्दबुद्धिहृदयान्निवर्तते ॥ ५०५ ।। आगमात्परेणैव ज्ञातस्य लिङ्गस्य वचनमपि न परार्थानुमानम् । २०
___यथा साङ्ख्यः ख्यापयामास । साधनस्य सिद्धिः आगमात्परेणैव ज्ञातस्य लिङ्गस्य वचनमपि न परा-खलु प्रतिपत्तव्याथेप्रतिपत्तिनिमित्तम् । न च थांनुमानमिति वदतः वादिनैव ततः साधनादर्थः प्रतिपत्तव्यः किन्तु साख्यस्य मतमुपदर्य प्रतिवादी प्रतिपादयितव्य इति साधनस्य सिद्धिः तत्खण्डनम् ।
प्रतिवादिप्रतिपत्तावुपयुज्यते न वादिप्रतिपत्तौ । २५ तेन प्रतिवादिन एव सा सिद्धिर्यद्यस्ति तावता तत्साधनमेवेति किं वादि
"Aho Shrut Gyanam"