________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. २३ सम्भवात्तदभावोऽसिद्धः । तन्न वाच्यम् । पक्षवचनं हि केवलं साध्यमर्थं प्रतिपादयेद्धेतूपन्याससमन्वितं वा । न तावत्केवलम्, हेतूपन्यासानर्थक्यप्राधेः । अथ हेतूपन्याससमन्वितम् । तर्हि हेतोरेव तत्र सामोपपत्तेः किं पक्षवचनेनेति ।
तन्न सामर्थ्यलब्धस्य पक्षस्यात्र कथञ्चन ।। वचनं युक्तिमायाति पौनरुक्त्यप्रसक्तितः ।। ५०३ ॥ अहो साहसभेतस्य शाक्यभिक्षोनिरीक्ष्यताम् ।। पश्यन्नपि पुरो दोषद्वीपिनं यत्प्रगल्भते ॥ ५०४ ।।
तथा हि यत्तावदुक्तं पक्षस्य विवादादेव गम्यमानत्वादित्यादि १० तदयुक्तम् । यतो येन केनचिद्वचनेन व्यवहिताद्वा प्रस्तुतानुमानेन
वाक्यावयवान्तरैकवाक्यतापन्नाद्वा विवादात्पक्षः प्रतीयते । तत्राद्यपक्षेऽतिव्युत्पन्नमतेस्तस्मात्तत्प्रतीतावपि तदितरेषां सा न स्यादिति तान्प्रत्यवश्यं निर्देशः पक्षः । द्वितीये त्वविवाद् एव । पराभ्युपेतपक्षविपरीतं
पक्षमुपन्यस्य तसिद्धये हेत्वादिकमवयवान्तरमभिदध्यादिति हि वय१५ मप्यभ्युपगच्छामः । यदप्यवादि प्रयोजनाभावाच्च तद्वचनमनुचित
मिति । तत्र प्रयोजनाभावोऽसिद्धः । प्रतिपाद्यप्रतिपत्तिविशेषस्य तत्प्रसाध्यप्रयोजनस्य सद्भावात् । प्रतिपाद्यो हि कश्चित्कुण्ठमतिः कश्चित्तीक्ष्णमतिः । तत्र कुण्ठमतेर्न प्रकृतार्थप्रतिपत्तिः पक्षप्रयोगमन्तरेणोपपद्यते । तीक्ष्णमतेस्तु तत्प्रयोगमन्तरेणापि प्रकृतार्थप्रतिपत्तिरुपपद्यत एवेति न तं प्रति वयमपि तत्प्रयोगमङ्गीकुर्मः । यदपि पक्षवचनं हि केवलं साध्यमर्थं प्रतिपादयेद्धेतूपन्याससमन्वितं पति विकल्पद्वयमुक्तम् । तत्राद्योऽनभ्युपगमादेव निरस्तः । द्वितीयस्त्विष्यत एव । तत्र च यद्दषणमुक्तं तर्हि हेतोरेव तत्र सामोपपत्तेः किं पक्षवचनेनेति । तदयुक्तम् । एवं हि हेतोः समर्थनापेक्षस्य सायसिद्धिनिबन्धनत्वोपपतेस्तद्वचनमपि न स्यात् । अथ साध्यसिद्धिप्रतिबन्धित्वात्पक्षस्याप्रयोगमशीकुर्वीथाः । एतदप्ययुक्तम् । वादिना समी
"Aho Shrut Gyanam"