________________
परि ३ सु. २३ ] स्थाद्वादरत्नाकरसहितः मीति मन्यते ॥ सोऽपि तद्वचनान्नैवं तमर्थमवबुध्यते ॥ २॥ किन्तु व्याप्तिमतो लिङ्गात्स्वयं त्वर्थ न पश्यति । तत्प्रतीत्यभ्युपायत्वात्परार्थमिदमुच्यते ॥३॥” इति । अतश्चात्र श्रोतुः स्वार्थानुमानमवदम् । वक्ता तु तथापरं प्रतिपादयन्परार्थमनुमानं प्रयुक्त इत्युच्यते ।
न चानुवादमात्रं तद्वक्तुरित्युपपद्यते ॥ यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥ ५०१॥ परेणानधिगतस्यार्थस्योपदेशकत्वान्नानुवादमात्रमनुमानवाक्यम् । स्वावगमापेक्षया त्वनुवादमात्रत्वेनेदानीमाप्तवचनमपि न तथा स्यात् । तस्यापि स्वावगमपूर्वकत्वात् । कार्ये कारणोपचाराद्वा वचनेऽनुमानव्यपदेशः । प्रतिपादकगतं हि स्वार्थानुमानं तद्वचनस्य निमित्तं, स हि १० स्वयं साध्यं प्रतिपद्य यथा ममैतत्प्रतिपत्तिरुत्पद्यते तथैवैनमपि प्रतिबोधयिष्यामीति । ततो वचनस्य तत्कार्यस्याज्ञानरूपस्यापि तव्यपदेशः सुन्दर एव । वादिनश्च प्रतिपत्तिः साध्यधर्मविशिष्टधर्मिरूपा प्रत्यक्षानिश्चितान्यथानुपपत्तिस्वभावाद्धेतोश्च सकाशासमभूत्ततश्च तत्प्रकाशकं वचनं परार्थमनुमानमिति सिद्धम् । एतेन १५ प्रत्यक्षपरामर्शशून्यं यच्चागमात्सरेणैव ज्ञातस्यानर्थरूपस्य वा लिङ्गस्य वचनं तन्न भवत्येव परार्थानुमानमित्युक्तं भवति ।
स्वपक्षपक्षपातीह चौद्धदर्शनवीक्षितः । परार्थ वचनानुपपत्तिारेति । समर्थयतो बौद्धस्य पक्षप्रयोगवैयथ्य समर्थयितुमुत्थितः ॥५०२।। पूर्वपक्षमुपपाद्य ननु पक्षस्य विवादादेव गम्यमानत्वा- २०
तत्खण्डनम् । त्परार्थं वचनानुपपत्तिः । तथा हि विरुद्धो वादो विवादः । एकः प्राह नित्यः शब्द इति, अन्यस्त्वाहानित्यः शब्द इति । एवंविधस्य विवादस्य प्रकृतत्वादनुमाने पक्षः प्रतीयत एवेति । प्रयोजनाभावाच्च तद्वचनमनुचितम् । अथ पक्षवचनस्य साध्यार्थप्रतिपादनलक्षणप्रयोजन
"Aho Shrut Gyanam"