________________
५४८
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ३ सू. २३
पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारादिति
॥ २३ ॥
1
पक्षहेतू निरूपितस्वरूपौ तयोर्यचने प्रतिपादकध्वनी ते एवात्मा स्वरूपं यस्य तत्पक्षहेतुवचनात्मकं परार्थमनुमानमुच्यते । पक्षहेतुवच५ नात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षयाऽत्रोक्तम् । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवति । यद्वक्ष्यन्ति मन्दमतस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानीति । अतिव्युत्पन्नमतिप्रतिपाद्यापेक्षया पुनर्धूमोऽत्र दृश्यत इत्यादि हेतुमात्रवचनात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्सा१० क्षात्तत्र सूत्रितमुपलक्षितं तु द्रष्टव्यम् । ननु ज्ञानं प्रमाणमिति प्रमाणसूत्रे निर्णीतमतः कथं पक्षादिवचनस्य जडात्मनोऽनुमानप्रमाणत्वमित्याशङ्कापनोदार्थमुक्तमुपचारादिति । कारणे कार्योपचारादित्यर्थः । उपचारश्च मुख्यबाधादौ सति प्रवर्त्तते । तत्र पक्षादिवचनस्य जडस्वरूपत्वान्मुख्यवृत्त्यानुमानप्रमाणत्वं न भवति । ज्ञानस्यैव प्रमाणस्वरूप१५ त्वादिति मुख्यबाधः स्पष्ट एव । प्रयोजनं पुनरन्यकारणवैलक्षण्येन कार्यकारित्वं नाम । यथा खलु पक्षादिवचनं परस्यानुमान जननाय प्रभवति । न तथाऽपरमिति सुप्रतीतम् । सम्बन्धश्चात्र कार्यकारणभावः । ततश्च प्रतिपाद्यगतमुत्पत्स्यमानं यज्ज्ञानं तत्कारणत्वात्पक्षादिवचनमप्युपचारेणानुमानं प्रमाणमुच्यते । यथा मद्वचनमात्रादयमवबु२० ध्यतामित्यभिसन्धिमान्वक्ता न प्रस्तुतं वाक्यमभिधत्ते । किन्त्वनुमानतोऽयं मयाऽवबोधनीयमित्यभिप्रायवान् । श्रोताऽप्येतद्वचनमात्रादयमर्थो मयाऽवबुद्ध इति न मन्यते । किन्तु व्याप्तिमतो लिङ्गादमुमर्थमवबुद्धवानिति । अतः श्रोतुः प्रतीत्यभ्युपायत्वात्परार्थमिदमुच्यते ।
यदाह " वक्तुः स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते । परो मद्व२५ चनादेव तमर्थ बुद्धयतामिति ॥ १ ॥ किं त्वेतमनुमानेन बोधया
१ किं' इति भ. पुस्तके पाठः ।
" Aho Shrut Gyanam"