________________
परि. ३.२२ ]
स्याद्वादरत्नाकरसहितः
मीमांसकः पुनराह - नन्वसिद्धः सर्वज्ञविषयो विकल्प इति न तस्मात्तत्सिद्धिस्तथा चाश्रयासिद्ध: सर्वज्ञसत्तायां
सर्वज्ञविषय विकल्प एवा
सिद्धः कुतस्तस्माद्धर्भिसि सर्वो हेतुरिति । तदसत् । यथैव ह्यनुन्मीलितद्धिरिति मीमांसकाधि- लोचनस्य प्राङ्मुखः प्रत्यङ्मुखो वाऽहमिति क्षेपस्य निरासः । मानसी प्रतीतिस्तथा सर्वज्ञ इत्यपि प्रतीतिः प्रत्या- ५ त्मवेद्यैव । सर्वथा सर्वज्ञविकल्पविधुरचेतसः प्रबलनिद्राक्रान्तस्येवाश्रयासिद्धबुद्भावनानुपपत्तेः । “ कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव ॥ य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते || १ || ” इत्याद्यनभिधानप्रसङ्गाच्च । सोऽयं सर्वज्ञविषयं विकल्पवचनं च प्रवर्त्तयन्नाश्रयासिद्धमुद्भावयतीति पश्य श्रोत्रियस्याप्युन्मत्तचेष्टितम् । किं च स्वसंवेदन - १० प्रत्यक्षलक्षणेन प्रमाणेन प्रतीयमानस्य सर्वज्ञविषयविकल्पस्थापलापे सकलभाचापलापप्रसङ्गः । प्रमाणविरोधश्चोभयत्रापि तुल्यः । नन्वस्त्येव सर्वज्ञावभासी मानसो विकल्पः । परं तदेव निरालम्बनोऽसाविति नैतद्वशादाश्रयसिद्धिरिति चेत् । हन्त हतोऽसि । मानसज्ञानादभावस्याप्यसिद्धिप्रसक्तेः । एवं च " गृहीत्वा वस्तुस - १५ द्भावम् ” इत्याद्यनवकाशम् । मानसादपि च नास्तिताज्ञानादद्भावस्यापि सिद्धिमुपजीवत्ययं श्रोत्रियो नाश्रयसिद्धिं तत इति स्वातन्त्र्यविजृम्भितम् । अथ तदेवासौ निरालम्बना किन्तु सर्वज्ञलक्षण विषयस्यासिद्धेरिति चेत् । कुतस्तदसिद्धिरित्यभिधातव्यम् । तत्र प्रमाणासम्भवादिति चेत् । तहीतरेतराश्रयदोषः । सिद्धे हि तद्विकल्पस्य निरा- २० लम्बनत्वे प्रमाणासम्भवसिद्धिस्तत्सिद्धौ च तद्विकल्पस्य निरालम्बनत्व - सिद्धिरिति ।
एवं च सिद्धमेतत्---
हेतुं गृहीत्वा सुदृढप्रमाणैः स्मृत्वाऽविनाभावमथोक्तरूपम् ॥
यथोक्तसाध्ये समुदेति बुद्धिः स्वार्थानुमानं तदिदं वदन्ति ||५०० ||२२|| २५ प्ररूपित स्वार्थमनुमानम् । अधुना परार्थं तन्निरूपयन्नाह -
" Aho Shrut Gyanam"
५४७