________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सू. २२ न्यवस्तुत्वाद्धेतोराश्रयासिद्धिरुपादीयते तत्रैव तव नावस्तुनि विधिप्रतिषेधावित्यस्याः प्रतिज्ञायाः परिक्षयः । यदि च परोपगमादेव व्याप्तिरपि विवक्षिता, अवस्तुन्यवस्तुत्वादाश्रयासिद्धो हेतु
रिति । तर्हि नेदं तथानुमतमिति तथापि नावस्तुनि विधिनिषेधाविति : ५ व्याहतम् । प्रतिषेधस्य स्वयं स्वीक्रियमाणत्वात् । नमोऽन्यार्थाभावात् ।
किं च सर्वः प्रसङ्गो विपर्ययपर्यवसितव्यापार इति न्यायाद्यद्यद्वस्तु एकान्तनित्यं स्यात्तदाश्रयासिद्धस्तन्नावस्त्वेकान्तनित्यमिति किं विवक्षितम् । तदापि यदाश्रयासिद्धिदोषः प्रस्तुतो नास्ति प्रकृते । तदा
सिद्धमेवास्मदुपन्यस्तमर्थक्रियासामर्थ्याभावस्वभावं साध्यम् । तस्मा१. स्वतन्त्र एव वस्तुत्वादाश्रयासिद्धिरवस्तुनि हेतोरिति हेतुदूषणप्रवृत्तस्य
परस्यावस्तुत्वादिति हेतुः । तथा च नावस्तुनि विधिनिषेधाविति दूरीकृतमेतत् । व्यापकानुपलम्भश्चायं त्वया प्रयुज्यते । आश्रयत्वस्य वस्तुत्वेन व्याप्त्यभिमानात् । स चाभिमानस्तव स्ववचनविरोधमनवबुद्धय
मानस्यैव । न हि नावस्तुनि विधिनिषेधाधारत्वमिति स्ववचनविरोध १५ मन्यमानस्य वस्तुत्वेन धर्मित्वस्य व्याप्त्यभिमानो मानसं स्पृशति । किं
त्वपरिभावकतयातिसामान्यजनस्यापि प्रतीतम् । यदापि वन्ध्यासुतो वक्ता न वेत्येवंविधे प्रस्तावे बन्ध्यासुतो वक्ता न भवत्यवस्तुत्वादित्यभिधीयते । तदाऽनोपात्तधर्म्यपेक्षयाऽवस्तुत्वादिति हेतोः कथं नाश्रया
सिद्धता । अथ वान्ध्येयो वक्ता न वेत्येवंविधां यदि कश्चिदाशङ्का २० कुर्वीत तदा भवतां तत्र वान्ध्येयो वक्ता न भवतीत्युत्तरवितरणावकाशः
स्यादिति चेत् । ननु कस्मादीदृशीमाशङ्कां न कश्चित्करोति । तदवस्तुतायाः सुप्रसिद्धत्वादिति चेत् । पुनस्तदेवायातं वन्ध्यासुतम्य धर्मिणो वक्तृत्वेनाशङ्कनीयताया निषेधः साध्यः सुप्रसिद्धावस्तुत्वादिति
हेतुरिति । न चावस्तुत्वेन प्रसिद्धत्वेऽपि सर्वथा शङ्काविरहः । निःसीमो २५ हि मोहमहिमा ततो यथा शब्दे चाक्षुषत्वादनित्यत्वं सम्भावयन्नसिद्धत्वेन
निषिध्यते । तथेहापि स्यातां शङ्कानिषेधौ न विरोधः । तस्माद्वस्तुनी. वावस्तुन्यपि कस्यचिद्धर्मस्य विधिनिषेधव्यवहारो दुर्वार इति ।
"Aho Shrut Gyanam"