________________
परि. ३ सू. २२] स्याद्वादरत्नाकरसहितः
न चोभयस्याप्यनभिधानमिति शक्यं वक्तुम् । विधिनिषेधयोर्भावाभावत्वादेकनिषेधेनापरविधानात् । विधेः प्रतिषेधो हि निषेधः प्रतिधनिषेधश्च विधिरिति । अस्तु वा न विधिर्नापि प्रतिषेधस्तत्र क्रियत इत्युभयाभावप्रतिज्ञा । तथाप्येवं वदतैव विकल्पसिद्धे धर्मिणि निषेध व्यवहारः स्वीकृतः । न हि निषेधमवधूय नमोऽन्यदर्थसम्भावना । स ५ च निषेधो यदि न प्रमाणसिद्धः कथमाद्रियते । किं चास्य वचनेनापि प्रमाणसिद्धिस्वीकारे च न तावदध्यक्षमेव तत्र साधनम् । अध्यक्षस्य तद्विषयत्वविरोधात् । अनुमानाश्रयणे चाश्रयासिद्धिरशक्यपरिहारा । ततो वान्ध्येयादिप्रस्तावे मूकतैव प्राप्ता । न च प्रतिज्ञामात्रस्याप्यवकाशः । न चैवं शक्यम् । यावन्न राजदण्डेन तत्प्रस्तावनिवारणम् । १० प्रस्तावे त्ववश्यं सभासम्भविनः प्रवक्तुर्वचनमनुषङ्गि । वचनस्य विधिनिषेधाभ्यां नापरो व्यापारः । अतो न वचनं नोऽवचनमिति महति कष्टसङ्कटे प्रवेशः । किं च वान्ध्येयादौ धनिर्माण हेतोराश्रयासिद्धिः कस्मादुपन्यपतत् । अवस्तुत्वात्तस्येति चेत् । वान्ध्येयस्य नास्तित्वे साध्ये तावदद्यापि सन्दिग्धमवस्तुत्वम् । यत्र त्वेकान्तनित्यमर्थक्रिया- १५ समर्थ न भवति क्रमयोगपद्यविरहादित्यभिधीयते जैनेन तत्रास्य हेतोराश्रयासिद्धत्वसिद्धये एकान्तनित्यस्यावस्तुत्वादिति साधनं भवताऽभिधीयमानं भवत एवासिद्धम् । एकान्तनित्यस्य त्वया वस्तुत्वेन स्वीकारात् । परोपगमापेक्षयेदमुच्यत इति चेत् । तर्हि प्रसङ्गहेतुरयं स्यात्। अवस्तुत्वादेकान्तनित्यस्याश्रयासिद्धस्तत्र हेतुरित्यर्थः । एवं सत्यवस्तुनि २० हेतुराश्रयासिद्धत्वेन व्याप्तो वक्तव्यः । न हि प्रतिबन्धमन्तरेण कश्चिद्धेतुर्भवति । पक्षधर्मतामात्र एव हि परोपगमापेक्षा यः प्रसङ्गहेतुरुच्यते । नतु व्याप्तावपि । तदुपगम एव कदाचिदेवमपि स्यादिति चेत् । तथापि न जैनैरवस्तुनि हेतुराश्रयासिद्धत्वेन व्याप्तोऽभ्युपागामि । एकान्तनित्य एवावस्तुभूते हेतुप्रणयनस्वीकारात् । ततश्च यौवावस्तु. २५
१' वक्तुं ' इति नास्ति भ. पुस्तके ।।
"Aho Shrut Gyanam"