SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५४४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सु. २२ भावधर्मः सिद्धोऽपि प्रस्तुते धर्मिणि दृश्यमानो गमयत्यभावम् । एवं तर्हि तथैव भावधर्मोऽपि सत्तां गमयतु को दोषः । ततो न सत्तासाधनविरोधो बौद्धैरभिधातव्यः । योगास्तु सङ्गिरन्ते-विकल्पसिद्धो धर्मी न भवत्येव तस्याप्रमाण __त्वात् । तथा ह्ययं विकल्पः पर्वतनितम्बादिधर्मिणो विकल्पसिद्धत्वमनङ्गीकुर्वतो नैयायिकस्य विकल्पवत्प्रमाणतया नैव स्वीचक्रे । तत्र मतमुपदी खण्डयते। प्रमाणस्यैव प्राधान्यात् । विकल्पसिद्धो धर्मीति कमर्थं पुष्णाति । अप्रमाणेन ननु विकल्पेन कः सुधीः कस्यापि सिद्धिमभिदधीत । यदि हि तथाभूतादपि विकल्पासाध्यसिद्धिः स्यात् । १० तदा यदेतदाहोपुरुषिकया परीक्षकाणां प्रमाणपरीक्षणं तदायासफलमेव भवेत् । तदिह विकल्पेन सिद्धो धर्मीति किमपि कपटनाटकं सितपटानाम् । तथा च धर्मिणोऽसिद्धराश्रयासिद्धो हेतुरिति । निरचायि ततस्तत्त्वं भो योगग्रामणीस्तवेदानीम् ।। स्वारूढामपि शाखां यत्खण्डयितुं प्रवृत्तोऽसि ॥ ४९८ ॥ १५ यदि हि विकल्पसिद्धो धर्मी न भवत्येव तदा कथं विकल्पसिद्धो धर्मी न भवति तस्याप्रमाणत्वादित्यत्रैवासौ धर्मितयोपादायि । कथं चात्रास्यैव हेतो श्रयासिद्धतोपनिपातः । न खलु भवतोऽत्र धर्मी प्रमाणेन सिद्धः । तथाभूतायां परं प्रत्याश्रयासिद्धतोद्भावनस्य विरोधापत्तेः । य एव हि परेण सर्वज्ञबान्ध्येयादिर्विकल्पसिद्धो धर्मी स्वानुमाने निरदेशि स एव भवताऽप्यत्रानुमाने । अन्यस्य धर्मित्वनिराकृतेः प्रकृतानुपयोगात् । स विकल्पसिद्ध एव भवतोऽपि । तथा च विकल्पसिद्धं यदि वक्षि धर्मिणे __ तदा प्रसिद्धं सुधियामभीप्सितम् ॥ अथो निराख्यासि तमत्र धर्मिणं तदापि सिद्धं सुधियामभीप्सितम् ॥ ४९९ ॥ "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy