________________
परि० ३ सू. २२ ]
स्याद्वादरत्नाकरसहितः
पुनरर्धजरतीयमेतलभ्यते । अथ सत्तायां साध्यायां सर्वस्तद्धेतुर्भावभावाभावाभावधर्मविकल्पत्रयीं दोषजातिं नातिवर्तते, असिद्धिं व्यभिचारं विरोधं च । तत्र यदि भावधर्म्मो हेतुरुच्यते । स कथमसिद्धसत्ता के स्यात् । यो हि भावधर्मं तत्रेच्छति स कथं तद्भावं नेच्छेत् । स्वभाव एव हि धर्मान्तरं प्रतिक्षेपापेक्षया धर्म इति व्यतिरेकी च धर्मिणो निर्दिश्यते । अथ च भावाभावोभयधर्मः । तर्हि व्यभिचारः । न हि बुद्धिरस्त्य मूर्त्तत्वादित्यत्रामूर्त्तत्वस्य गमकत्वं भवन्तोऽप्यैच्छन् । निरूपाख्येऽप्यमूर्त्तत्वस्य भावात् । अभावधर्मं हेतुं वदतोऽस्य विरुद्धो हेतुः स्यात् । तस्य भावे क्वचिदसम्भवात् । तदुक्तम्- " नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ॥ धम्र्म्मो विरुद्धोऽभावस्य स सत्ता १०साध्यते कथम् ॥ १ ॥ " भिक्षो कथमेवं न सकलानुमानप्रलयापत्तिः । अनित्यः शब्दः सत्त्वाद्धटवदित्यादिष्वपि तथैव दोषत्रयानुषङ्गात् । शक्यं हि वक्तुं किमयं सत्त्वादिरनित्यधर्म आहोस्विन्नित्यधर्म उभयधर्मो वेति । अनित्यधर्मश्चासिद्धः । तमनित्यधर्मे सिद्धं तत्रेच्छन्ननित्यमेव शब्दं किन्नेच्छेत् । यावान्कश्चिद्भावः सन्स सर्वोऽप्यनित्य १५ एवेति साकल्येन व्याप्तौ प्रसिद्धायां को हि प्रेक्षावान् शब्दमनित्यं न प्रतिपद्यते । यतः संश्च शब्द इति साधनाङ्गवचनं प्रतीक्षेत् । नित्यधर्मस्तु तत्र विरुद्धः । तद्विपक्ष एव भावात् । उभयधर्मश्चानैकान्तिकः । सपक्षांवेपक्षवृत्तित्वादिति सर्वं समानं पश्यामः । ततो न कश्चित्कस्यचिद्धेतुः स्यात् । किञ्चैतदखिलमसत्तासिद्धावपि समानम् । तथा हि २० नासिद्धे भावधर्म इत्यादिरेव श्लोकस्तावत्पुनः पठ्यताम् । अयं खल्वस्यार्थः, असिद्धे प्रधानादेरभावेऽभावधर्मोऽनुपलब्धिरूपो हेतुः कथं सिद्धः स्यात् । सिद्धौ हि तस्य साध्यस्यापि सिद्धत्वाद्यर्थमनुमानं भवेत् । यः खल्वभावधर्मं तत्रेच्छति स कथमभावमेव तस्य नेच्छेत् । अभावभाबोभयधर्मः पुनर्व्यभिचारी । भावस्य तु धम्र्मोऽयं बिरुद्धः । २५ तस्याभावे कचिदभावादिति कथमसत्ता साध्यते । अथ सामान्येना
" Aho Shrut Gyanam"
५४३