________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ३ सु. २२
44
साधयितव्या । तत्र चानन्वयदोषः । मीमांसकस्य क्वचिदपि सर्वज्ञाप्रसिद्धेः । तदित्थं न सत्ता साध्यतामर्हतीति । तत्रायं महात्मा प्रसिद्धधूमानुमानादावपि समानमिदमशेषमाकलयन्नपि सत्तामेव प्रसञ्जयन्न लज्जत इति निश्चितं नगरवायसः । तथा हि नाग्निमात्रे साध्ये कश्चिद्विवाद वह्निमात्रस्य सर्वप्रमातृप्रसिद्धत्वात् । महीप्रकटकादिविशिष्टाधारविशेषणस्य त्वदभिमतस्य तस्यानन्वय इति । अथ नैव कश्चित्तथाभूतेनार्थेनान्वयं करोति । प्रतिपादयता हि परं घूमोऽग्निनान्तरीयको दर्शनीयो यत्र धूमस्तत्राग्निरिति । स तथामिमात्रेण व्याप्तः सिद्धो यत्रैव स्वयं दृश्यते तत्रैवानिबुद्धिं जनयतीति । तदुक्तम्- “ लिङ्गस्या१० व्यभिचारस्तु धर्मेणान्यत्र दर्श्यते ॥ तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥ १ ॥ " अयमर्थः - लिङ्गस्य धूमादेः साध्यधर्मेणाव्यभिचारोऽन्यत्र सामान्यवति धर्मिणि दर्शयितव्यः तथा ज्ञाताव्यभिचारं लिङ्गं तत्र साध्यधर्मिणि प्रसिद्धं सदव्यभिचारितया निश्चीयमानं व्यापकधर्मयुक्तं धर्मिणं गमयिष्यति । तदसम्बद्धम् । एवंविधन्या१५ यस्यान्यत्राप्यन्यूनत्वात् । तथा हि न सर्वज्ञविशिष्टेन सत्त्वेन कश्चिदन्वयं करोति किन्तु सत्त्वमात्रेण । तेन हि किञ्चित्साधनम विनाभूतं सिद्धं यत्रैव कचित्स्वयं दृश्यते तत्रैव साध्यधियमादधातीति को नामात्रापराधः । अथ सर्वज्ञशब्दवाच्यस्यार्थस्यैव कस्यचिदसिद्धत्वात्परं
प्रति कथं तत्र सत्तासिद्धिः स्यादन्यत्र तु सिद्ध एवोभयोरपि पर्वत२० नितम्बादिरिति तत्र वह्निसाधनं साधीय इति चेत् । कुतः पुनरुभयोः पर्वतनितम्बादिसिद्धिः । प्रत्यक्षादिति चेत् । सर्वज्ञसिद्धिरपि विकल्पादिति प्रतीहि । न च विकल्पाद्धर्मिप्रसिद्धिं नाभ्यशंसन् भवन्तः । न सन्ति प्रधानादयोऽनुपलब्धेरित्यादिप्रयोगाणां धर्मकीर्त्तिना स्वयं समर्थनात् । न चासत्तायामेव साध्यायां विकल्पसिद्धेन धर्मिणा भवितव्यं न सत्तायामित्यत्र स्वैरित्वादपरं कारणमीक्षामहे । तस्मादुभयत्र वा विकल्पसिद्धिं धर्मिणमभ्युपयन्तु मैकत्रापि वाऽभ्युपेयुः । न
२५
५४२
པ
" Aho Shrut Gyanam"