________________
परि. ३ सू. २२] स्याद्वादरत्नाकरसहितः
धर्मिणः सर्वज्ञादेः प्रसिद्धिः प्रतीतिः कचिद्विकल्पतोऽध्यवसायमात्रतो भवति। तथा कुत्रचित्प्रमाणतः सकाशात् । कापि पुनर्विकल्पप्रमाणाभ्यामिति ॥ २१ ॥
अर्थतेषां क्रमेणोदाहरणत्रयमाह--- यथा समस्ति समस्तवस्तुवेदी क्षितिधरकन्धरेयं ५
धूमध्वजवती ध्वनिः परिणतिमानिति ॥ २२॥
तत्राचे निदर्शने धर्मिणो विकल्पसिद्धत्वम् । न खलु हेतुप्रयोगात्पूर्व सर्वज्ञस्य विकल्प विहायान्यतः कुतश्चित्सिद्धिरस्ति । द्वितीये प्रमाणसिद्धत्वम् । क्षितिघरकन्धरायाः प्रत्यक्षसिद्धत्वात् । तृतीये विकल्पप्रमाणसिद्धत्वम् । ध्वनिसामान्यं हि धर्मी कृतं तत्र कश्चिद्ध- १० निर्विकल्पसिद्धः कश्चित्प्रमाणसिद्ध इति ।। अत्राह शाक्यः-ननु प्रथमे सत्ता साध्यमाना न साधिमान
_माधत्ते । तथा हि, असौ साध्यमानोपात्तसर्वज्ञसत्तायाः साध्यं निराकुवतो बौद्धस्य खण्डनम् । विशेषणविशिष्टैव साधयितव्या । सत्तामात्रस्य
साधने वादिनोऽभीष्टसिद्धयभावस्य प्रतिवादिनः १५ सिद्धसाध्यतावतारस्य च प्रसङ्गात् । अस्ति कश्चिदिति हि साधयतो वादिनः का नामेष्टसिद्धिः स्यात् । करतलतुलितनिस्तलस्थूलमुक्ताफलायमानाकलितसकलत्रिलोकीवर्तिवस्तुजातत्वादिविशेषणविशिष्टस्य पुरुषस्याप्रसिद्धः । न च प्रतिवादिनापि तथा नाभिमतम् । अनिर्दिष्टस्वभावविशेषस्य कस्यचित्सत्तामात्रे विरोधाभावात् । तदुक्तम्- २० " भावोपधानमात्रे तु साध्ये सामान्यधर्मिणि ॥ न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् ॥" अस्यार्थ:-भावः सत्ता स उपधानं विशेषणं यस्य तन्मात्रत्वादेव सामान्यरूपे धर्मिणि साध्ये न कश्चिदर्थोऽभिमतः सिद्धः स्यात् । न च केनचित्प्रतिवादिना तथाभतं वस्तु निषिद्धं येन साध्येतेति । तस्मादुपात्तसर्वज्ञविशेषणविशिष्टैवासौ २५
"Aho Shrut Gyanam"