________________
५३८
प्रमाणनयतत्त्यालोकालङ्कारः [परि. ३ स. १७ संशयितोऽपि कश्चित्तथैव । सर्वस्य तस्य निणयाकाङ्क्षाया असम्भवात्। अथ परानुग्रहतत्परान्तःकरणेनोपेक्षानुपपत्तेरनर्थित्वादनुपसर्पन्नपि संशयितात्मा प्रतिबोध्य एव । तर्हि तत एव विपर्यस्ताव्युत्पन्नावपि तथा स्ताम् । अविनेयविषयमेवमनुमापयितुर्माध्यस्थ्यं विरुध्यत इति चेत् । मैवम् । माध्यस्थ्यं हि रागद्वेषाश्लेषकालुप्यविषयत्वमुच्यते । तच्च परमकृपापीयूघपूरितान्तःकरणानां विपर्यस्ताव्युत्पन्नयोविनेयस्वसिद्धये गुणदोषोपदेशनायां वर्तमानानां कथं विरोधमधिरोहति । यदि च विपर्यस्ताव्युत्पन्नौ प्रतिपाद्यौ न स्याताम् । तदा लोकस्य व्यवहारस्यापि विलोपः स्यात् ।
दृश्यते हि लोके पित्रा विपर्यस्तोऽव्युत्पन्नश्च पुत्रः शिक्ष्यमाणः । कथं १० वाऽयं जिगीषुकथायामनुमानं प्रयुञ्जीत । परस्य विपर्यस्तत्वात् । जिगी
घुवादस्य साभिमानजनारभ्यत्वात् । तथा चोक्तम्--" साभिमानजनारभ्यश्चतुरङ्गो निवेदितः " इति । ततः स्थितं शङ्कितादयस्त्रयोप्याः साध्या इति । अनिराकृतमिति तु विशेषणमुभयापेक्षया ।
यत्खलु वादिप्रतिवादिनोः प्रमाणेन न बाध्यते तदेव साध्यमिति । १५ अभीप्सितमिति पुनर्वापेक्षयैव । इच्छया खलु विषयीकृतमभीप्सित
मुच्यते । स्वाभिप्रेतार्थप्रतिपादनाय चेच्छा वक्तुरेव । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यस्य प्रसिद्धयति । तद्धीच्छया व्याप्तं साक्ष्यस्य बौद्धं प्रति साध्यमेव ।
आत्मा हि साङ्ख्येन साधयितुमुपक्रान्तस्ततोऽसाचेव साध्यः । अन्यथा २० साधनस्य वैफल्यापत्तेः । संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामुपगमात् ।
एवं चात्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोषः साध्यवैकल्यमिति । एतेन चार्वाकोक्तसद्वितीयत्वप्रयोगोऽप्यप्रयोगाई एवेति निवेदितम् । यथाऽभिव्यक्तचैतन्य
शरीरलक्षणपुरुषघटान्यतरसद्वितीयो घटोऽनुत्पलत्वात्कुड्यादिवदिति २५ कुडयादौ घटसद्वितीयत्वेन व्याप्तिर्यथोक्तपुरुषसद्वितीयत्वे साध्ये फलतो
विश्राम्यतीति पराभिप्रायः । तेन भङ्गया तथाविधपुरुषसिद्धिर्ननु घटे
"Aho Shrut Gyanam"