________________
परि. ३ सू. १७] स्याद्वाद्रत्नाकरसहितः ५३७
अथानिराकृतमिति विशेषणस्य फलमुपदर्शयन्नाहप्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनि
राकृतग्रहणामिति ॥ १६ ॥ प्रत्यक्षमादिर्येषामनुमानागमादीनां तैर्विरुद्ध प्रत्यक्षादिविरुद्धं प्रत्यक्षादिनिराकृतमित्यर्थः । तत्र प्रत्यक्षबाधितमश्नावणत्वं शब्दस्य । अनु- ५ मानवाधितमेकान्तनित्यत्वं ध्वनेः । आगमबाधितं प्रेत्यासुखप्रदत्वं धर्मस्येत्यादि ।। १६ ॥
इदानीमभीप्सितमिति विशेषणस्य फलमाहअनभिमतस्यासाध्यत्वप्रतिपत्तयेऽभीप्सितपदोपादा.
नमिति ॥ १७॥ १० अनभिमतस्य साधयितुमनिष्टस्य । एतानि चाप्रतीतादीनि साध्यविशेषणानि त्रीण्यपि स्वार्थानुमानेऽनुमात्रपेक्षयैव सम्भवन्ति । तत्र वादिप्रतिवादिव्यवस्थानस्यासम्भवात् । परार्थानुमाने तु तत्सम्भवेनाप्रतीतमिति विशेषणं प्रतिवाद्यपेक्षया । न पुनर्वाद्यपेक्षया । तस्यार्थस्वरूपप्रतिपादकत्वात् । न चाप्रतिपन्नार्थस्वरूपः प्रतिपादको नाम ! अति- १५ प्रसङ्गात् ! प्रतिवादिनस्तु प्रतिपाद्यत्वेनाविज्ञानार्थस्वरूपत्वाविरोधात् । ननु शङ्कितविपरीतानध्यवसितानां त्रयाणामप्यर्थानां परार्थानुमाने
. साध्यत्वमसम्बद्धम् । शङ्कितस्यैवैकस्य साध्यत्वविपरीतानध्यवसितयोरिलिघटनादिति कश्चित् । सोऽपि न विपश्चित् । कस्यचिन्मतस्य शङ्कितेऽर्थे संशयितस्य संशयापनोदेनेव विपरी- २०
तानध्यवसितयोरप्यर्थयोविपर्ययानध्यवसायव्यवच्छेदेन परार्थानुमानस्य निर्णयोत्पादकत्वाविशेषात् । विपर्यस्ताव्युत्पन्नौ परं प्रति नोपसर्पत एव कुतः प्रतिपाद्यौ स्यातामिति चेत् । भैवम् । परपक्षदिदृक्षादिना विपर्यस्तस्य स्वयं तत्त्वबुभुत्सया चाव्युत्पन्नस्य परंप्रत्युपसर्पणसम्भवात् । कौचित्तौ नोपसर्पत एवं परमिति चेत् । २५
खण्डनमा
"Aho Shrut Gyanam"