________________
५३६ प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सु. १३
न चागृहीतोऽसावनुमानाङ्गम् । तदानीं तस्य ग्रहणे तु हेतुप्रतिपत्तिसमय एव साध्यप्रतिपत्तेरुन्मीलितत्वात्किमनुमानेन । यदि च तादात्म्यतदुत्पत्तिभ्यामविनाभावः प्रतिज्ञायते । तदा कथं कृत्तिकोदयादेः शक
टोदयादिकं प्रति गमकत्वं स्यात् । तत्र तादात्म्यतदुत्पत्त्योरभावात् । ५ ततः सकलसम्यग्धेतुव्यापिता स्वयोग्यतैवाविनाभावे निमित्तमास्थेयम् । स्वयोग्यतयैव हि किञ्चित्केनचिदविनाभूतं न सर्वं सर्वेण । एवं च-- न तादात्म्यं हेतोनियमकरणे नैपुणधरं
तदुत्पत्तिर्नापि श्रयति कथमप्यत्र बलिताम् ।। विनाऽप्येते यस्माइत गमकता हेतुनिवहे
__ भवत्येवाऽन्येषां कथमिह ततो यत्नपरता ॥ ४९७ ॥१३॥ ___ ननु हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमनुमानमित्युक्तम् । तत्र किंलक्षणकं साध्यमित्याह----
अप्रतीतमनिराकृतमभीप्सितं साध्यामिति ॥ १४ ॥ १५ संशयादिव्यवच्छेदेन प्रसिद्धमर्थस्वरूपं प्रतीतमुच्यते तद्विपरीतम
प्रतीतम् । अनिराकृतं प्रत्यक्षादिभिरबाधितम् । अभीप्सितं साधनविषयत्वेनेष्टम् ॥ १४ ॥
अप्रतीतविशेषणं तावत्समर्थयतेशङ्किताविपरीतानध्यवसितवस्तूनां साध्यताप्रतिप
त्यर्थमप्रतीतवचनमिति ॥ १५॥ ___ संशयाकलितं शङ्कितं विपर्ययविषयीभूतं विपरीतमनध्यवसायविषयीकृतमनध्यवासितं वस्तु प्रतिपाद्यते । तेषां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनं साध्यलक्षणसूत्रे कृतम् । एवंभूतान्येव हि वस्तूनि हेतुना साध्यन्ते न पुनर्निश्चितानि । तत्र हेतोर्वेफल्यात् ॥ १५ ॥
"Aho Shrut Gyanam"