________________
परि. ३ सू. १३]
स्याद्वादरत्नाकरसहितः
मानम् । विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेत् । न । तत्स्वरूपग्रहणे विपरीतसमारोपानवसरात् । न हि शिरः पाण्यादिविशेषदर्शने सति पुंसि स्थाणुसमारोपो दृष्टः । तत्र वा तद्भेदादुपपद्येतापि । न हि शिरः पाण्यादय एव पुरुष इति तद्ग्रहणेऽप्यपुरुषारोपः स्यादपि । इह तु वृक्षत्वशिंशपात्वयोरभेदाच्छिशपात्वग्रहणे सति का कथा वृक्षत्वेतरसमारोपस्य । किं च साध्यसाधनयोस्तादात्म्ये यथा शिंशपात्वेन वृक्षत्वमनुमीयते तथा वृक्षत्वेनापि शिशपात्वमनुमीयेत । तादात्म्याविशेषात् । अथान्यः सम्बन्धोऽन्यश्च प्रतिबन्धः । द्विष्ठः सम्बन्धः | प्रतिबन्धस्तु परायत्तत्वलक्षणः । तच्च शिंशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिशपात्वे । यथा धूम - १० स्यानौ प्रतिबन्धो न त्वनेर्धूमे । सत्यमेतत् । किन्त्वेवमुच्यमानेऽविनाभाव एव स्वीकृतो भवेन्न तादात्म्यम् । तादात्म्ये हि यथा वृक्षत्वं सर्ववृक्षसाधारणं तथा शिंशपात्वमपि स्यात् । यथा वा शिंशपात्वं शिंशपां विना न दृश्यते तथा वृक्षत्वमपि शिंशपारहितं न दृश्येत । दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वम् । अथ खदिरादिवृक्षत्वा - १५ दन्यदेव तद्वृक्षत्वं यच्छिशपात्वाभिन्नमित्युच्यते । तर्हि धर्मिभेदेन च धर्माणां मेदेऽन्वयग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेत् । धूमायोस्तु कार्यकारणयोर्भेदाद्युक्तं वक्तुं धूमस्याग्नौ प्रतिबन्धो न त्वग्नेर्धूमे इति । इह तु साध्यसाधनयोरव्यतिरेकान्न तथा शक्यते वक्तुम् । तथाभिधाने वा नाव्यतिरेकः । ततः सर्वथा तादात्म्यं वा त्यज्यतां वृक्षत्वेन शिंश- २० पात्यं वाऽनुमीयतां नान्तरावस्थातुं लभ्यते । तन्न तादात्म्यमविनाभावनिबन्धनम् । नापि तदुत्पत्तिः । यतो न सामान्ययोः कार्यकारणभावः । किन्तु विशेषयोः । ययोश्च विशेषयोर्महानसादौ कार्यकारणभावः प्रतिपन्नस्तयोर्न गम्यगमकभावः । ययोस्तु क्षितिधर कन्धराधिकरणयोर्धूमधूमध्वजविशेषयोर्गम्यगमकभावो न तयोः कार्यकारण- २५ भावः प्रतिपन्नः । न चाप्रतिपन्ने तस्मिंस्तयोरविनाभावो ग्रहीतुं शक्यः ।
1
" Aho Shrut Gyanam"
५३५