________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ३ सू. १३
पन्नत्वरूपविरुद्धधर्माकान्तत्वात् । अथोच्यते, यथावस्थितो धी शिंशपात्वं वृक्षत्वं च त्रयमेकात्मकमेव । तत्र धर्मिणि गृह्यमाणे शिंशपात्व. वक्षत्वमपि गृहीतमेव । यथोक्तम्-" तस्माद्दष्टस्य भावस्य दृष्ट
एवाखिलो गुणः ॥ भागः कोऽन्यो न दृष्टः स्याद्यः प्रमाणैः परी५ क्ष्यते ॥१॥" इति । यदि परं शिंशपाविकल्पो जातो न वृक्षविकल्पः । वृक्षशब्दस्मृत्यभावापराधात् । शिशपाशब्दसंस्कारप्रबोधकजन्मना शिंशपाविकल्पेन वाऽशिंशपायावृत्तिपर्यवसितिना नावृक्षव्यावत्तिरुपनीयते । सर्वविकल्पानां पर्यायत्वप्रसङ्गात् । गम्यगमकमावश्चा
नयोावृत्त्योर्न वस्तुनोः । तयोरन्वयाभावात् । अवृक्षव्यावृत्त्यशिंशपा१० व्यावृत्ती च परस्परं भिन्ने । व्यावर्त्यभेदात् । अतो यथोक्तदोषानुप. पत्तिरिति । एतदपि पूर्वापरानुसन्धानविधुराणामभिधानम् । तादात्म्य धनुमानबीजमभिधीयते साध्यसाधनभूतयोावृत्त्योः । पुनरन्योन्यं भेद इति महतीयं परामर्शशक्तिः शाक्यानाम् । ननु वृक्षशिंशपयोस्तादा
म्यात्तदात्मतया व्यवसितयोरवृक्षव्यावृत्त्यशिंशपाव्यावृत्योरपि, सत्यपि १५ भेदे यथाध्यवसायं तादात्म्यमिति चेत् । तर्हि सिद्धे तादात्म्ये सत्यशिंशपाव्यावृत्त्या धर्मिण्यवृक्षव्यावृत्तिरध्यवसेया तत्राध्यवसितायां चावृक्षव्यावृत्तौ यथाध्यवसायं तादात्म्यसिद्धिरित्यन्योन्याश्रयदोषः । अथ व्याप्तिग्रहणवेलायामेकात्मतयाऽव्यवसितयोावृत्त्योस्तादात्म्य सिद्धमिति चेत् , तर्हि काल्पनिकमेव तद्भवेत् । तथा चानुमानमपि २० कल्पनासमारोपितमेव स्यात् । तथोपगमे च न कश्चिदहेतुर्नाम । प्रमेयत्वानित्यत्वयोरप्येकात्मतयाध्यवसितयोर्यथाध्यवसायं तादात्म्यसम्भवात् । विपक्षव्यावृत्त्यभावात्प्रमेयत्वस्यानित्यत्वेन सह तादात्म्याभाव इति चेत् । सत्यम् । वास्तवं तादात्म्यं नास्ति , अस्ति कल्पना
समारोपितं तु तदेव चानुमानोदयबान्धवं समर्थितवन्तो यूथमिति २५ विपक्षव्यावृत्तिरसत्कल्पेति कथं प्रमेयत्वं हेतुर्न स्यात् । एवं च तादा.
स्म्यस्य गमकत्वाङ्गतास्वीकृतौ हेतुग्रहणे साध्यस्यापि ग्रहणाद्ध्यर्थमनु
"Aho Shrut Gyanam"