________________
परि. ३ स. १३] स्याद्वादरत्नाकरसहितः
५३३ हेतावनुप्रवेशादिति शाक्याः । नाऽमी निवारयितुमशक्याः । यत: किं यत्र तादाम्यतदुत्पत्ती तत्राविनाभावः । यत्राविनाभावस्तत्र तादात्म्यतदुत्पत्ती वा । न तावत्पौरस्त्यः पक्षः । सत्यपि तादात्म्ये वृक्षत्वस्य शिंशपात्वस्य व्यभिचारात् । सत्यामपि च तदुत्पत्तौ श्यामत्वादिधूमधर्मस्तोमस्य वहिव्यभिचारात् । न च शिंशपात्वमेव वृक्षत्वात्मकं न ५ वृक्षत्वं शिंशपात्वात्मकं खदिरोदुम्बरादिसाधारणत्वाद्वक्षत्वस्येति वाच्यम् । तयोरेकान्ताभेदाभावात् । यदि च खदिरोदुम्बरादिसाधारणं वृक्षत्वमेव न शिंशपात्वं तदा नानयोरैक्यम् । स्वभावभेदस्य भेदलक्षणत्वात् । एतेन यत्प्रज्ञाकरेण न तु यथा वृक्षात्मा शिंशपा तथा वृक्षोऽपि शिंशपात्मैव तादात्म्यस्योभयगतत्वमन्तरेणाभावादित्याशङ्कयम् । अवि- १० भागवत्त्वात् । वृक्षो हि शिंशपाव्यतिरेकेणाप्यस्ति पलाशादिर्न तु शिंशपा तथेति । सैवाविभागवती गमिकेल्युक्तम् । तदपि परास्तम् । विभागवत्त्वाविभागवत्त्वयोविरुद्धत्वेन भेदाविनामावित्वात् । नापि धूम एव वहिना क्रियते न श्यामत्वादयस्तद्धर्मा इति युक्तम् । वस्तुनो निर्भागत्वात् । अथ यत्राविनाभावस्तत्र तादात्म्यतदुत्पत्ती । तर्धविनाभावे सिद्धे १५ तयोर्गमकाङ्गत्वमङ्गीकृतं स्यात् । एवमिति चेत् , तर्षविनाभाव एवास्तु गमकत्वाङ्गं किं तादात्म्यतदुत्पत्तिभ्याम् । न हि स्वभावः स्वभाव इत्येर कार्य च कार्यमित्येव स्वसाध्यं गमयति । किन्तु तदविनाभावीति । अपि च यदि तादात्म्यं गमकत्वाङ्गमिष्यते तदा साध्यसाधनयोर्मेदाभावेन सम्बन्धाभावादविनाभावानुपपत्तिः । न च निरंशवस्तुवादि- २० नस्तयोस्तादात्म्ये सति भेदः कथञ्चिदपि घटते । तादात्म्यं हि तत्स्वभावता, तेन साध्येन साधु साधनस्यैक्यमुच्यते । न चैक्ये भेदगन्धोऽपि सम्भवति । भेदे च नैक्यम् । अतः कथं तदात्मतया शिंशपात्वं वृक्षत्वं गमयेत् । तादात्म्येन न गमकत्वे हेतुप्रतिपत्तिवेलायामेव साध्यस्यापि प्रतिपन्नत्वान्नानुमानस्य साफल्यम् । अथ तत्प्रतिपत्तिवेलायां २५ साध्यमप्रतिपन्नमेव । तदा कथं तयोस्तादात्म्यम् । प्रतिपन्नत्वाप्रति
"Aho Shrut Gyanam"