________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ स.. १३ यथा, धूमोऽनेः । समवायि यथा, विषाणं गोरिति । एकार्थसमवायि द्विविधम् । कार्य कार्यान्तरस्य । कारण कारणान्तरस्य । तत्र कार्य कार्यान्तरस्य यथा , रूपं स्पर्शस्य । कारणं कारणान्तरस्य यथा,
पाणिः पादस्येति । विरोधि चतुर्विधम् । अभूतं भूतस्य, अभूतम.५ भूतस्य, भूतमभूतस्य, भूतं भूतस्य । तत्राभूतं भूतस्य यथा, अभूतं वर्षकर्म
भूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । अभूतमभूतस्य यथा, अभूता
श्यामता अभूतस्य घटामिसंयोगस्य लिङ्गम् । भूतमभूतस्य यथा, भूतं 1. वर्षकर्म अभूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । भूतं भूतस्य यथा,
भूतं स्यन्दनं कर्म भूतस्य सेतुबन्धस्य लिङ्गमिति । तथा १० परमपि लिङ्गमुत्प्रेक्ष्यमनया दिशा । यथा, जलप्रसादोऽगस्त्योदयस्य ।
चन्द्रोदयः समुद्रवृद्धेरिति लिङ्गोपलक्षणत्वादस्य सूत्रस्येति । तदपि निरूपितप्रायमवसेयम् । समानयोगक्षेमत्वात् । उपनिषत्तदियं तव योग यां गदितवानसि लिङ्गपरंपराम् ।
इतरथानुपपत्तिमपास्य सा विशति नैव मनस्तु मनस्विनाम् ॥४९३।। १५ हेतोर्लक्षणमेतदेव तदहो क्षोदक्षम वर्तते
___ सूत्रे यत्प्रतिपाद्यतेऽस्य सकलैर्दोषैरदत्तास्पदम् ।। अन्यत्त्वत्र विचार्यमाणमयते तीर्थान्तरीयोदित
नो युक्तिं कथमप्यतः कथमिदं स्वीकुर्वते कोविदाः ।।४९४।। नन्वन्यथानुपपत्तिरविनाभाव इत्यभिदधानस्य च निमित्तमन्वेषणीयं
प्रामाणिकैः। तच्च तादात्म्यतदुत्पत्तिरूपम् । नाभावनिमित्तमिति बौद्ध तथा हि स्वभावहतास्तादात्म्यं स्वसाध्याविनामतस्याशंकापूर्वकं भावे निबन्धनम् । यो हि यदात्माभावः स खण्डनम्।
कथं तदुत्सृजति ! कार्यहेतोस्तु तदुत्पत्तिस्तत्र निबन्धनम् । कार्य हि कारणाधीनात्मलाभमेव भवति तत्कथं तद२५ न्तरेण कापि स्यात् । न चाभ्यामन्यो हेतुरस्ति । अनुपलब्धेः स्वभाव
"Aho Shrut Gyanam"