________________
५३९
परि. ३ स. १७] स्याद्वादरत्नाकरसहितः नास्त्यकृतति । अथ प्रयोगे तथाभूतेन पुरुषेण तथा कुड्यादौ सद्वितीयत्वासिद्धेरन्वयदोषः । अथ सामान्येन साध्यमिति न पुरुषद्वितीयवस्याक्षेप इति चेत् । ननु घटो घटेनैव सद्वितीयस्तावन्न भवति तादृक्पुरुषेणान्यथा वा सद्वितीयत्वे तु साध्यवैकल्यं दृष्टान्तस्य । तथा यादृशं केवलेनैव घटेनैव सद्वितीयत्वं दृष्टान्ते सिद्धं तादृशमेव ५ तत्साध्यधर्मिण्यनिष्टं प्रामोतीति हेतोर्विरुद्धत्वम् । अपरत्र तु सिद्धसाधनम् । येन केनचित्सद्वितीयत्वस्य सिद्धत्वात् । किं च यदि पुरुषविशेषसद्वितीयत्वं हेतुना न स्वव्यापारास्पदीकृतं कथमतस्तत्सिद्धिः। न ह्ययं हेतुम्तदर्थः सिद्धः । सिद्धो वा कथमविषयस्तस्य । विषयश्वेत्स्वाश्रयों दोषगतिं कथं न स्पृशेत् । सोऽयं वादी पुरुषगत- १० सद्वितीयत्वाश्रयां सिद्धिं साधनादुपजीवति न दूषणमिति व्यक्तमिति : राजकुलस्थितिः । युक्तवादिकुले हि यस्यैव साधनेन सिद्धिश्चिकीर्षिता तस्यैवार्थस्य दूषकेण सिद्धिनिराकर्तव्या । तस्माद्यावतीमर्थगति साधनं सामर्थ्येन व्यानोति तावती तद्दषणमपि । किं च कथं सामान्यस्य साधनं सम्भवति । प्रतिवादिनोऽभिव्यक्तचैतन्यस्य पुरुषस्याभावादेव १५ घटादर्थान्तरभावानभ्युपगमेनान्यतरशब्दप्रयोगासंगतः । द्वयोर्हि तथाभावसम्भवेऽन्यतरोक्तिः समर्था भवति । यथा देवदत्तयज्ञदत्तयोरन्यतरं भोजयेदिति । अनयोर्द्वयोरपि भोजनविधिसम्भवे ह्यनियत एकस्मिन्भोजनं विधीयते । ततोऽन्यतरोक्तिः सङ्गतार्था । न पुनरेकतरस्य कुतश्चिन्निमित्ताद्भोजनासम्भवे वक्तुरेकतरभोजनस्यानाकाङ्क्षायां वा । २० अपि च न घटाद्धटोऽर्थान्तरम् । यदि हि तस्यैव घटस्य स एव घटो द्वितीयः । तदा घटत्वं च न स्यात्तस्मादेतच्चैकस्मिन्विरुद्धमिति यथोक्तपुरुष एवान्यतरोऽपेयः । तथा च विरुद्धार्थ साध्यवाक्यं कथं चार्वाकस्य न स्यात् । ननु स्वार्थानुमानस्वरूपनिरूपणप्रकरणे परार्थानुमानोपयोगिनो वादिप्रतिवाद्यपेक्षस्य विशेषणविचारस्य कोऽवसरः । २५ उच्यते । स्वार्थानुमानपुरस्सरतया परार्थानुमानस्यापि प्रवृत्तिः ।
"Aho Shrut Gyanam"