________________
परि. ३ सू.१३] स्याद्वादरत्नाकरसहितः सम्भवति।अतिप्रसक्तेः। अथान्वयेन व्याप्तमन्यथानुपपन्नत्वमिष्यते । तर्हि केवलव्यतिरेकिणि प्राणादिमत्त्वादावन्वयस्य निवर्तनातव्याप्तस्यान्यथानुपपन्नत्वस्यापि निवृत्तेरगमकत्वं स्यात् । न खलु व्यापकाभावे व्याप्यं भवति । वृक्षत्वाभावे शिशपात्ववत् । गमकत्वे वा प्राणादिमत्त्वादेर्नान्वयेनान्यथानुपपन्नत्वं व्याप्तं भवेत् । यस्याभावेऽपि यद्भवति न तत्वेन ५: व्याप्तम् । यथा सलिलाभावेऽपि भवन्धूमादिर्न तेन व्याप्तः। भवति चान्वयाभावेऽपि प्राणादिमत्त्वादावन्यथानुपपन्नत्वमिति । अन्यच्च । सदसद्वर्ग इत्याद्यनुमानेऽनेकत्वादित्यस्य हेतोः कुतः केवलान्वयित्वम् । व्यतिरेकाभावाचेत्, अयमपि कुतः । तद्विषयस्य विपक्षस्याभावाच्चेत् । अथ कोऽयं विपक्षाभावः । पक्षसपक्षावेव निवृत्तिमात्रं वा, प्रथमपक्षे १०. परमतप्रसक्तिः । अमावस्य भावान्तरस्वभावतास्वीकारात् । निवृत्तिमात्रलक्षणोऽपि विपक्षाभावः प्रतिपन्नो न वा । न प्रतिपन्नश्चेत्तार्ह विपक्षाभावस्य सन्दिग्धत्वाचतिरेकामावोऽपि सन्दिग्ध इति केवलान्वयोऽपि सन्दिग्ध एव । अथ प्रतिपन्नः । स यदि साध्यसाधननिवृत्त्याधारः प्रतिपन्नस्तार्ह स एव विपक्ष इति कथं विपक्षाभावो यतो व्यतिरे- १५ काभावः स्यात् । साध्यसाधननिवृत्त्याधारतया निश्चितस्यैव विपक्षत्वात् । तच्च भाववदभावस्यापि न विरुध्यते । कथमन्यथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमित्यत्रासतः पक्षत्वमपि स्यात् । असत्यक्षो भवति न तु विपक्ष इति च किंकृतो विभागः । अथासद्वर्गशब्देन सामान्यविशेषसमचाया एवोच्यन्ते नाभावाः । तर्हि प्रागभावाद्यभाव- २० विषयं ज्ञानं न कस्यचिदनेनानुमानेन प्रसाधितमिति सुव्यवस्थित शूलिनः सकलकार्यकारणग्रामपरिज्ञानम् । प्रागभावाद्यज्ञाने कार्यत्वादेरप्यज्ञानात् । अपि च यद्मभावोऽत्र पक्षसपक्षाभ्यां बहिर्भूतः, तीनेनानेकत्वादित्यनैकान्तिको हेतुः । अमावस्यानेकत्वेऽपि कस्यचिदेकज्ञानालम्बनत्वानभ्युपगमात् । अभ्युपगमे वा कथमभावो न पक्षः । तथा २५. च विपक्षोऽप्यसावस्तु । नन्वेवं विपक्षाभावोऽप्येकज्ञानालम्बनमिति
"Aho Shrut Gyanam"