________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ पक्ष एव स्यात् । तथा च पुनरपि विपक्षाभाव एवेति चेत् । तर्हि पुनरपि तदेव प्रेय कोऽयं विपक्षाभाव इति । यदि पक्षसपक्षावेव स्तः, तर्हि भावाद्भिन्नस्याभावाज्जैनमतप्रवेशः। अथ तुच्छा विपक्षनिवृत्तिस्तदभावः । सोऽपि यद्यप्रतिपन्नः । तर्हि सन्दिग्धः । तत्सन्देहे च ५ व्यतिरेकाभावोऽपि तादृगेवेति न निश्चितः केवलान्वय इत्यादि तदवस्थं पुनः पुनरावर्तत इति । ततः केवलान्वयित्वेनैवाभ्युपगतस्यानुमानस्य विपक्षाभाव एव तुच्छो विपक्षः । ततः साध्यनिवृत्त्या साधननिवृत्तिश्च सुव्यक्तैवेति कथं न व्यतिरेकः । अथ विपक्षामावस्यापादानकारकत्वायोगान्न ततः साध्यसाधनयोावृत्तिरिति चेत् । तन्न समीचीनम् । भावः प्रागभावादिभ्यो भिन्नस्ते वा परस्परतो भिन्ना इत्यादावप्यभावस्यापादानकारकत्वाभावप्रसङ्गात्सर्वेषां प्रागभावादीनां साङ्कय स्यात् । किं चान्वयमात्रेण गमकत्वे द्रव्यं गुणकर्मसामान्यविशेषसमवायप्रागभावादयः प्रमेयत्वात्पृथिव्यादिवदित्यादेरपि
गमकत्वं कथं न स्यात् । धर्मिग्राहकप्रमाणबाधितत्वे कालात्ययापदि. १५ ष्टत्वान्नैतादृशं गमकमिति चेत् । तीबाधितविषयत्वमपि लिङ्गस्य
लक्षणं पूर्वनैयायिकवद्भवद्भिरपि वक्तव्यम् । तच्चालक्षणमेवेत्युक्तम् । सम्प्रति पक्षत्वान्नेदृशस्य गमकत्वमिति चेत् । तसत्प्रतिपक्षत्वमपि तल्लक्षणं वाच्यम् । तदप्यलक्षणमेवेति निवेदितम् । ततोऽन्यथानुप
पन्नत्वाभावादेवेदृशस्यागमकत्वमङ्गीकार्यम् । तन्न केवलान्वय्यनुमानं २० परेषां न्याय्यम् । यच्चान्यदुक्तं पूर्ववत्सामान्यतो दृष्टं केवलव्यतिरेकी
त्यादि तदप्ययुक्तम् । यतः प्राणादेरन्वयाभावे कुतो गमकत्वमिति वाच्यम् । व्यतिरेकादिति चेत् । तथा हि यस्माद्धटादेः सात्मकत्वनिवृत्तौ प्राणादयो नियमेन विनिवर्तन्ते तस्मात्सात्मकत्वाभाव:
प्राणाद्यभावेन व्याप्ती धूमाभावेनेव पावकाभावः । जीवच्छरीरे च २५ प्राणाद्यभावविरुद्धः प्राणादिसद्भावः प्रतीयमानस्तद्भावं निवर्तयति ।
स च निवर्तमानः स्वव्याप्यं सात्मकत्वाभावमादाय निवर्तत इति
"Aho Shrut Gyanam"