________________
प्रमाणनयतत्त्वालोका लङ्कारः
[ परि. ३.सु. १३
"पक्षे उपयुक्ते सति शेषः सपक्षो भवति सोऽस्यास्त्याश्रयत्वेनेति शेषवदित्यनेन सपक्षे वृतिरुक्ता भवति । सामान्यतो दृष्टमित्यनेन विपक्षाद्यावृत्तं लिङ्गमुच्यते । कथम् । अकारप्रश्लेषात्, सामान्यतो दृष्टमिति । तिष्ठतु तावद्विशेषतः सामान्यतोऽपि न दृष्टम् । क्रेति पक्ष सपक्षयोर्वृत्ते५ रुक्तत्वात्पारिशेष्याद्विपक्षे सामान्यतोऽपि न दृष्टमित्यवतिष्ठते । एवं च यत्पूर्ववच्छेषवत्तत्केवलान्वय्यनुमानम् । पक्षधर्मत्व सपक्ष सत्त्वसमन्वितमित्यर्थः । यथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमनेकत्वात्पञ्चाङ्गलवत् । अत्र हि पञ्चाङ्गुलव्यतिरिक्तस्य सदसद्वर्गस्य समग्रस्य पक्षीकरणादन्यस्याभावाद्विपक्षाभावः । अत एव व्यतिरेकाभावः । तथा १० पूर्ववत्सामान्यतो दृष्टं केवलव्यतिरेकि । पक्षधर्मत्वविपक्षव्यावृत्ति समन्वितमित्यर्थः । यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद्यत्पुनः - सात्मकं न भवति तत्प्राणादिमदपि न भवति यथा घटादि प्राणादिमच जीवच्छरीरं तस्मात्सात्मकमिति । अत्र हि जीवच्छरीरस्य पक्षीकृतत्वेन सपक्षाभावादन्वयाभावः । तथा पूर्ववच्छेषवत्सामान्यतो दृष्ट१५ मन्वयव्यतिरेकि । पक्षधर्मत्व सपक्ष सत्त्वविपक्षव्यावृत्त्युपेतमित्यर्थः । यथा क्षित्यादिकं बुद्धिमत्कारणकं कार्यत्वात्कुम्भादिवत् । यत्पुनर्बुद्धिमत्कारणकं न भवति न तत्कार्यत्वधर्माधारो यथा व्योमादीति । अत्र सपक्षविपक्षयोः कुम्भादिव्योमादिकयोः सद्भावाद्धेतोरन्वयव्यतिरेकसद्भावः ।
કા
२०
अन्वर्यवद्व्यतिरेकवदित्थं तद्रूयवच्च किलोच्यत ठिङ्गम् || एतदपि प्रतिपादितयुक्तिव्यूहवशेन समस्तमपास्तम् ॥ ४९४ ॥ सर्वत्र निश्चितान्यथानुपपन्नत्वस्यैव हेतुलक्षण तोपपतेस्तस्मिन्सत्येव हेतोर्गमकत्वप्रतीतेः । केवलान्वयिनो हि यदि प्रमाणनिश्चितमन्यथानुपपन्नत्वमस्ति तदा किमन्वयापेक्षया । अथान्वयाभावे हेतोरन्यथा२५ नुपपन्नत्वस्यैवाभावः स्यादतोऽन्वयापेक्षा म्यादेतद्यद्यन्यथानुपपन्नत्वमन्वयेन व्याप्तं भवेत् । न खल्वव्यापक निवृत्तावव्याप्यनिवृत्तिः
१ श्रीछन्दः ।
-
"Aho Shrut Gyanam"