________________
परि. ३ सू. १३]
स्याद्वादरत्नाकरसहितः
देशादिविशेषावच्छिन्नस्य साध्यस्य साधनात् । तर्कात्तु सामान्यत एव तत्सिद्धेः । असत्प्रतिपक्षत्वेऽपि प्रतिपक्षस्तुल्यबलोऽतुल्यबलो वा । तुल्यबलत्वे बाध्यबाधकभावानुपपत्तिः । अतुल्यबलत्वं त्वनयोः किं पक्षधर्मत्यादिभावामावकृतमनुमानबाधजनितं वा । न तावदाद्यः पक्षो निरवद्यः । पक्षधर्मत्वादेरुभयोरप्यविशेषात् । मूर्खत्वाभावे साध्ये शास्त्रज्याख्यानादिकलाकौशलशालिवस्येव मूर्खत्वे साध्ये तत्पुत्रत्वस्यापि पक्षधर्मत्वादिसम्भवात् । द्वितीयपक्षोऽप्यसम्भाव्यः । अनुमानबाधाया अद्याप्यसिद्धः । न हि द्वयोः पक्षधर्मत्वाद्यविशेष एकस्य. बाध्यत्वमपरस्य बाधकत्वं युक्तम् । अविशेषेणैव तत्प्रसङ्गात्परस्पराश्रयश्च । तथा ह्यतुल्यबलत्वे सत्यनुमानबाधा तस्यां चातुल्य- १० बलत्वमिति ।
एवं च पञ्चलक्षणलक्षितलिङ्गाग्रहं विहाय हठात् ।।
जिनोदितैकलक्षणलक्षितमिह लक्ष्यतां लिङ्गम् ॥ ४९२ ॥ तदुक्तम्--- " अन्यथानुपपन्नत्वं रूपैः किं पञ्चभिः कृतम् ।। नान्यथानुपपन्नत्वं रूपैः किं पञ्चभिः कृतम् ॥ १॥" इति ।
नैयायिकाः केचिदथात्र लिङ्गतपूर्वकमित्याद्यक्षपाद
मन्यप्रकार परिकीर्तयन्ति ॥ सूत्रानुसारिणा मतमुपदश्य खण्डनम् । तेषामिदानी प्रतिपादयाम
स्तदर्थसंसूचकसूत्रमेकम् ॥ ४९३ ।। २० "तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च" इति । तत्र तदिति सर्वनाम्ना पूर्वप्रक्रान्तं प्रत्यक्षं प्रत्यवभृश्यते । तत्पूर्व कारणं यस्य तत्तत्पूर्वकं त्रिविधमनुमानमिति स्पष्टम् । वादादिकथात्रये पूर्वमुपादीयमानत्वात्पक्षः पूर्वशब्देनोच्यते । सोऽस्थास्त्याश्रयत्वेनेति पूर्ववत् । लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति । २५
१ गौ. सू. १1१।५.
"Aho Shrut Gyanam"