________________
प्रमाणनयतत्वालोकालङ्कारः परि. ३ सू. १३ त्वात् । अन्वयोऽपि नियत एव । पूर्वदृष्टे धमेऽग्निजन्यत्वेन व्याप्तस्य सत्त्वस्य सद्भावात् । व्यतिरेकश्च । खरविषाणादौ साध्याभावे साधनस्य सत्त्वस्याभावनिश्चयात् । अबाधितविषयत्वमप्यत्रास्ति । विवादापन्ने
धूमेऽग्निजन्यत्वस्य बाधकाभावात् । एवमसत्प्रतिपक्षत्वमपि । अन५ ग्निजन्यत्वसाधकस्यानुमानस्यात्रासम्भवादिति सिद्धं हेत्वाभासेऽपि सत्त्वे पञ्चरूपत्वम् । सामस्त्येन व्यतिरेकनिश्चयस्यात्राभावादसिद्धमिति चेत् । न । तस्यान्यथानुपपन्नत्वरूपत्वेन तदभावे शेषरूपाणामकिश्चि. करत्वापत्तेस्तद्विकलस्यैव पञ्चरूपत्वस्यालक्षणत्वेन साध्यत्वात् । यत्यु
नरबाधितविषयत्वासत्प्रतिपक्षत्वयोरभावादेकशाखाप्रभवत्वतत्पुत्रत्वहेत्वो१० रगमकत्वमगादि तत्राप्यन्यथानुपपत्त्यभाव एव निमित्तम् । न पुनर
बाधितविषयत्वासत्प्रतिप्रशत्वयोरभावः । तयोः सतोरप्यगमकत्वस्यानन्तरमेव दर्शितत्वात् । किं चाबाधितविषयत्वस्य तावन्निश्चितस्यैक हेतुलक्षणाङ्गत्वमङ्गीकृतम् । न च तन्निश्चयः सम्भवति । तन्निश्चय
साध्यनिश्चययोः परस्पराश्रयणात् । सति हि बाधनाभावनिश्चये हेतोः १५ साध्यनिश्चयस्तनिश्चयाच्च बाधनाभावनिश्चय इति न तयोरन्यतरस्य
व्यवस्था । यदि पुनरन्यतः कुतश्चिद्वाधनाभावनिश्चयात्परस्पराश्रयपरिहारः क्रियते । तदाप्यकिञ्चित्करत्वं हेतोः । यथैव हि हेतोविपर्ययस्य बाधासद्भावनिश्चये तत्साधनासमर्थत्वादकिञ्चित्करत्वम् । तथैव
बाधाविरहनिश्चये कुतश्चित्तस्य सद्भावसिद्धेस्तत्साधनाय प्रवर्त्तमानस्य २० सिद्धसाधनादपीति न साधीयस्तस्य तलक्षणत्वम् । नन्वेवमविना
भावोऽपि हेतुलक्षणं मा भूत्तन्निश्चयस्यापि साध्यसद्भावनिश्चयायत्ततया तस्य चाविनाभावाधीनत्वादितरेतराश्रयस्य प्रसङ्गादिति चेत् । न । अविनाभावनियमस्य हेतौ प्रमाणान्तरान्निश्चयोपगमादितरेतराश्रयानवका
शात् । ताख्यं हि प्रमाणमविनाभावनिश्चयनिबन्धनम् । प्रत्यक्षा२५ देस्तत्राव्यापारात् । तर्हि यत एवाविनाभावनिश्चयो हेतोस्तत एव
साध्यस्यापि सिद्धेस्तन हेतोरकिश्चित्करत्वमिति चेत् । न । ततो
"Aho Shrut Gyanam"