________________
परि. ३ सू. १३]
स्याद्वादरत्नाकरसहितः
,
सर्वदेश विशिष्टः, देशविशिष्टो वा अनुमेयः स्यात्, एष सिसाधयिषितो वाग्निः सर्वदेशविशिष्टः, अनिर्धारितदेशविशिष्टः, प्रागनुभूतदेशविशिष्टः, इदानीमनुभूयमानदेशविशिष्टो वाऽनुमेय इति । तत्रैते पञ्चदश पक्षाः प्रत्यक्षविरोधसिद्धसाध्यत्वादिदोषोपहता इत्यनादरणीया एव । यस्तु षोडशः पक्ष एतद्देशविशिष्ट एषोऽग्निरिति तत्र देशविशेषावच्छेदमन्तरेणैष वह्निरिति परिग्रहीतुमेव न शक्यते । अतो देश एव प्रथममवगम्यते । तस्य च पूर्वप्रतिपन्नत्वादिदानीमनवगतदहनविशिष्टस्त्वस्यानुमातुं योग्यत्वात्स एव साध्यो युक्तः । अपि च । अग्नेः साध्यतायामतद्धम्र्म्मो धूमः कथमनुमापकः स्यात् । अनुपलब्धे ज्वलने तद्धर्मतया धूमो ग्रहीतुं न पार्यते । उपलब्धे तु हुतभुजि भवदपि विफलमेव धूमस्य तद्धर्मताग्रहणम् । १० अनुमेयस्य तदानीं कस्यचिदभावात् । तस्मादग्निविशिष्टः परिदृश्यमानो देश एव साध्यः । स च स्वरूपतः प्रत्यक्षोऽपि परोक्षधर्मविशिष्टतयानुमेय इति धूमधर्मयोगादग्निधर्मवान्स एवानुमीयते । सोऽनुमानस्य विषयो लिङ्गीत्युच्यते । परोक्षग्रहणं च परोक्षधर्मविशिष्टे धर्मिणि साध्यत्वप्रतिपत्त्यर्थम् । कचित्तु व्याप्तिस्मरणसमनन्तरमेव प्रत्यासीदत्तः १५ प्रमातुर्झटिति समुन्मिषन्न कस्मादेव प्रत्यक्षीभवति विभावसुरिति न तद्विशिष्टतयापि धर्मिणि परोक्षत्वमवकल्प्यत इति तद्व्यावृत्तयेऽपि परोक्षग्रहणमिति ।
ततश्च
रूपपञ्चकसमृद्धिबन्धुरं लिङ्गमेतदिति योगजल्पितम् || साध्यसिद्धिमनुमानमुद्रया मन्त्रयद्भिरुपगन्यतां वुधैः ॥ ४९० ॥
५२५
" Aho Shrut Gyanam"
२०
भारती तव वयस्य शुश्रुवे वर्णमात्रघटनासमुदुरा || भासते पुनरसौ मनीषिणां काणदृष्टिरिव रोपिताञ्जना ॥ ४९१ ॥ तथा हि- हेतोः पञ्चरूपत्वमनुपपन्नम् । त्रैरूप्यवत्तस्यापि हेत्वाभा - सेऽपि भावात् । अग्निजन्योऽयं धूमः सत्त्वात्पूर्वोपलब्धधूमवदित्यत्र हि २५ हेत्वाभासेऽपि पक्षधर्मत्वं तावदास्ति । पक्षीकृते धूमे सत्त्वस्यासन्दिग्ध