________________
५२४
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ सू. १३ दिति व्याख्यातम् । व्याप्तिग्रहणसमयसमधिगतस्वरूपस्यापि लिङ्गस्य पुनर्धर्मिणि कचिदनवधृतवपुषो न साध्यावबोधसाधनत्वमिति द्वितीयं लिङ्गदर्शनमवश्यमपेक्षणीयमिति गृहीतादित्युक्तम् । लिङ्गं हि
ज्ञापकं न च चक्षुरादिवत्कारकम् । ज्ञापकस्य चायं स्वभावो ५ यदज्ञातं सन्न ज्ञापयतीति । व्याप्तिकालगृहीतमेव व्याप्तिवत्स्म
र्यमाणतया लिङ्गं लिङ्गिनं गमयिष्यतीति चेत् । मैवम् । लिङ्गग्रहणमन्तरेण व्याप्तिस्मृतेरप्यभावादिति । अथ नियमस्मृतेरिति व्याख्यायते । नियमो व्याप्तिरविनाभावो नित्यसाहचर्यमित्यर्थः ।
तस्य स्मृतिनियमस्मृतिस्तस्याश्च सकाशात्परोक्षे लिङ्गिनि १० ज्ञानमनुमानं प्रचक्षते इत्यत्रापि सण्टकः । द्वितीयलिङ्गदर्शने
सत्यपि नियमस्मरणमन्तरेण साध्यामितिर्नोन्मीलतीति भावः । "नियमो हि गृहीतोऽङ्गमनुमेयप्रमा प्रति ॥ न नालिकेरद्वीपस्थो धूमादग्निं प्रपद्यते ॥ १॥ साध्यानुमितिवेलायां न चास्ति नियम
ग्रहः ॥ नियमग्रहकाले च न साध्यमनुमीयते ॥ २॥ तेन पूर्व १५ गृहीतः सनिदानी स्मृतिगोचरः ॥ नियमः प्रतिपयङ्गं तथावगति
दर्शनात् ॥३॥ यत्रापि विषयेभ्यस्तेनैव संवेद्यते स्मृतिः ॥ तत्राप्यनेन ज्ञानेन बलात्स परिकल्प्यते ॥४॥" अथ परोक्षे लिङ्गिनीति वित्रियते । तत्र लिङ्गी तावदुच्यते । धर्मविशिष्टो धर्मी साध्यः
स एव लिङ्गीति । न धर्मिमात्रं साध्यम् । पर्वतादेर्मिणः सिद्धत्वात् । २० न धर्ममात्रम् । अग्नेरपि यत्र तत्र सिद्धत्वात् । न च द्वयोः साध्य
त्वम् । स्वतन्त्रयोर्वह्निपर्वतयोरपि सिद्धत्वादेव । तस्मादेकस्य द्वयोर्दा स्वातन्त्र्येणानुमेयता नावकल्प्यत इत्यवश्यमन्यतरविशिष्टोऽन्यतरः साध्यो वक्तव्यः । तत्रापि तु धर्मविशिष्टो धर्मी। तथा हि-देशविशिष्टे
वह्नौ साध्ये षोडश विकल्पाः सम्भवेयुः । सर्व एव वाग्निः सर्वदेशवि२५ शिष्टः, अनिर्धारितदेशविशेषविशिष्टः, पूर्वानुभूतमहानसादिदेशविशिष्टः,
सम्प्रत्युपलभ्यमानपर्वतादिदेशविशिष्टो वाऽनुमेयः स्यात्, कश्चिदग्निः
"Aho Shrut Gyanam"