________________
परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः योगः । कथम्भूताल्लिङ्गात् , पञ्च लक्षणान्यस्येति पञ्चलक्षणकं तस्मात् । कानि पुनः पञ्च लक्षणान्युच्यन्ते , पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाघ्यावृत्तिरवाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । सिषाधयिषितधर्मविशिष्टो धर्मी पक्षस्तद्धर्मत्वं पक्षधर्मत्वं तदाश्रितत्वमित्यर्थः, साध्यधर्मयोगित्वेन निश्चितं धर्म्यन्तरं सपक्षस्तत्रास्तित्वम्, साध्यधर्मसंस्पर्शशून्यो धर्मी ५ विपक्षस्ततो व्यावृत्तिः, अनुमेयस्यार्थस्य प्रत्यक्षेणागमेन वा अनपहरणमबाधितविषयत्वम्, संशयबीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेनानुपहतत्वमसत्प्रतिपक्षत्वमिति, एतैः पञ्चभिलक्षणैरुपपन्न लिङ्गं साध्यस्यानुमापकं भवति । एतेषां च लक्षणानामेकैकापायात्यञ्च हेत्वाभासा भवन्ति। तथा हि-यस्य पक्षधर्मता नास्त्यसावसिद्धो हेत्वाभासः । यथा नित्यः १० शब्दश्चाक्षुषत्वादिति, सपक्षे सत्त्वं यस्य नास्ति स विरुद्धः, यथा नित्यः शब्दः कृतकत्वादिति, यस्य विपक्षाघ्यावृत्तिर्नास्त्यसावनेकान्तिकः, यथा नित्यः शब्दः प्रमेयत्वादिति, यस्याबाधितविषयत्वं नास्ति स कालात्ययापदिष्टः, यथानुष्णस्तेजोऽवयवी कृतकत्वाद्धटवदिति प्रत्यक्षबाधितविषयः । ब्राह्मणेन सुरा पेया द्रवत्वात्क्षीरवदित्यागम- १५ बाधितविषय इति । यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः, यथाऽनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवत् । नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवदिति । द्वावप्येतौ परस्परं सत्प्रतिपक्षाविति । न च वस्तूनामद्विरूपत्वात्कथमेकत्र धर्मिणि परस्परविरोधधर्मद्वयाक्षेपप्रयोजकहेतुद्वितयस्य सन्निपातो भवेदिति शङ्कनीयम् । यतः संशयबीजं २० यद्विशेषाग्रहणं तदन्यतरपक्षनिर्णयाय प्रान्त्या प्रयुज्यमानं सत्प्रतिपक्षतां प्रतिपद्यते । स्थाणुरयं पुरुषधर्मानुपलब्धेः पुरुषोऽयं स्थाणुधर्मानुपलब्धरितिवत् । अन्यतरविशेषानुपलम्भ एवायं संशयाधायी पक्षधर्मान्वयव्यतिरेकोपपत्तेभ्रमणे हेतुरिति प्रयोज्यमानः सत्प्रतिपक्षो भवति । पुरुषप्रज्ञाप्रमादमूलत्वाच्च वस्तुनो यात्मकत्वमिह प्रतिभासते । इति २५ सुव्यवस्थित एव प्रकरणसमाख्यः पञ्चमो हेत्वाभासः। एतेषु पञ्चसु लिङ्गलक्षणेषु लिङ्गस्याविनाभावः परिसमाप्यते, इति पञ्चलक्षणकाल्लिका
"Aho Shrut Gyanam"