________________
५२४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ हेत्वाभासेऽप्यस्य सम्भवात् । पञ्चरूपत्वं तु भक्त्येव । निर्दोषत्वात् । एकशाखाप्रभवत्वस्य हि त्रैरूप्ये सत्यप्यहेतुत्वम् । अबाधितविषयत्वासम्भवात् । तथा हि । इदमनुमानं प्रतिदिनपरिणामोपचीयमानपश्चिमवयसि वसन्ते कस्यापि ललाटंतपग्रहपतिपातितप्रचण्डमरीचिकाचक्र५ सम्पर्ककर्कशसनीरलहरीपरिक्वाथ्यमानपरिपक्वफलरसस्य सहकारमही
रुहस्य कस्याञ्चिद्विशालशाखायां कानिचित्कुङ्कुमपङ्कपिञ्जराणि परिणतिपेशलानि कान्यपि पुनरपि जरठतमालदलश्यामलकान्तिकान्तानि तदितराणि फलानि समुपलभमानस्तदभिलाषबलप्रबलविगलदन्तोदकप्लवप्ल
वमानलोलजिह्वाचलः पुमान्कश्चित्करोति । अथवाऽऽमताग्राहिणा १० तत्प्रत्यक्षेणावबाध्यते । तत्पुत्रत्वस्यापि विद्यमानेऽपि त्रैरूप्ये हेत्वा
भासत्वम् । असत्प्रतिपक्षत्वाभावात् । मूर्योऽयं तत्पुत्रो न भवति विविधशास्त्रव्याख्यानादिकौशलशालित्वात्प्रतिपन्नप्राज्ञपुरुषवदित्यादेस्तत्प्रतिपक्षस्य सम्भवात् । इदमपि हि मूर्खत्वानुमानमनेककर्कशतर्कशास्त्रसन्दर्भ
गर्भाविर्भावनाविजृम्भमाणप्रभूततमरोमाञ्चसञ्चयकम्बुकाञ्चितशरीरेण कु१५ शाग्रीयशेमुषीशालिना शिष्यमण्डलेन समुपास्यमानं कमपि कोविदवृ
न्दारकमवलोकमानस्तदुपरिप्ररूढमत्सरमदिराधिकारपरवशः कश्चिदहयुः करोति । अथ च तत्प्रतीयमानेनैव मूर्खत्वबाधकेन विविधशास्त्रव्याख्यानादिकलाकौशलशालित्वानुमानेन बाध्यते । ततः कालात्यया
पदिष्टस्य हेत्वाभासस्य व्यवच्छेदार्थमबाधितविषयत्वं प्रकरणसमस्य च २० व्युदासार्थमसत्प्रतिपक्षत्वं हेतोर्लक्षणमभ्युपेयमिति पक्षधर्मत्वादिरूपत्रया
दभ्यधिकयोरबाधितविषयत्वासत्प्रतिपक्षत्वयोरपि रूपयोः सद्भावात्पञ्चलक्षणकमेवमङ्गीकरणीयम् । यथोक्तं जयन्तेन-" पञ्चलक्षणकालिङ्गाद्गृहीतानियमस्मृतेः ॥ परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते
॥१॥” इति । स एवैतव्याचष्टे-परोक्षोऽर्थो लिङ्ग-यते गम्य२५ तेऽनेनेति लिङ्गं तस्मालिङ्गाल्लिङ्गिनि ज्ञानमनुमानं प्रचक्षत इति
१ ललाटंतपः-मध्याहस्थः । प्रहपतिः सूर्यः । २ अहंकारवान् । ३.न्यायमञ्जरीपू. १.९.
"Aho Shrut Gyanam"