________________
परि. ३ सू. १३]
स्याद्वादरत्नाकरसहितः
नास्ति तत्पुत्रत्वेनापि न भवितव्यमेवेत्येकान्तः । शाकाद्याहारस्वरूपस्वकारणासत्त्वेन कदाचन श्यामत्वानुत्पत्तावपि स्वकारणोपढौकितस्य तत्पुत्रत्वस्य सम्भाव्यमानत्वादिति चेत् । तर्ह्येवंस्वभावं विपक्षासत्त्वं निश्चितान्यथानुपपत्तिरेवेति तदेवैकं हेतोः प्रधानं लक्षणमस्तु । पर्याप्तं लक्षणान्तरपरिकल्पनया । तदुक्तं पात्रस्वामिना - " अन्यथानुपपन्नत्वं ५ यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥१॥ " इति । यत्पुनरभिहितमन्यथासिद्धत्वादिदोषानुषङ्गादित्यादि । तदपर्यालोचितवचनम् । निश्चितान्यथानुपपत्तिलक्षणत्वादेव हेतोरसिद्धत्वादिदोषपरिहारप्रसिद्धेः । न ह्यसिद्धादिषु हेत्वाभासेषु निश्चितान्यथानुपपत्तिः कथञ्चित्सम्भवतीति । असिद्धादिस्वरूपसूचकसूत्रस्य व्याख्या - १० नावसरेऽभिधास्यामः । एवमप्यविनाभावप्रपञ्चत्वात्पक्षधर्मत्वादेरसिद्धादि - व्यवच्छेदार्थं हेतुलक्षणत्वेन प्रणयने निश्चितत्वस्यापि रूपान्तरस्याज्ञातासिद्धताव्यवच्छेदार्थमबाधितविषयत्वादेश्व लक्षणान्तरस्य बाधितविषयत्वादिव्यवच्छित्तये हेतुत्वलक्षणत्वेन प्रणयनं स्यात् ।
एवं च---
नैतद्भिक्षो पक्षधर्मत्वमुख्यं त्रैलक्षण्यं लक्षणं लक्षणीयम् ॥ यस्मादस्मिन्विद्यमानेऽपि हेतोः शक्तिनैवात्मीयसाध्यप्रसिद्धौ ||४८८ ||
अत्र योगाः प्रत्यवतिष्ठन्ते
हेतोः पञ्चरूपत्वमङ्गीकुर्वतां नैयायिकानां मतमुपद खण्डनम् ।
जानासि जल्पितुमनल्पमते यदत्र हेतोत्रिलक्षणकतां क्षिपसि क्षणेन ॥
यस्मादयं प्रभवति प्रकटस्वसाध्य
संसाधनाय नियतं ननु पञ्चरूपः ॥४८९॥
५२१
" Aho Shrut Gyanam"
१५
२०
तथा हि- त्रैरूप्यं हेतोर्लक्षणं मा भूत् । पक्कान्येतानि सहकार
फलान्येकशाखाप्रभचत्वादुपयुक्तसहकारफलवदित्यादौ
बाधितविषये मूर्खोऽयं देवदत्तस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादौ सत्प्रतिपक्षे च २५