________________
५२०
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १३ एवासत्त्वेन निश्चितः । सपक्षेऽपि तस्यासत्लनिश्चयात् । ननु सपक्षस्याभावात्तत्र सत्त्वादेरसत्त्वनिश्चयेऽपि स्वसाध्यसाधकत्वं युक्तम् । न. पुनः श्रावणत्वादेः । तस्य विद्यमानेऽपि सपक्षे घटादावसद्भावादिति.
चेत् । तदप्यसमीचीनम् । सति सपक्षे विद्यमानत्वस्य गमकतायामन५ नत्वात् । अन्तर्व्याप्तेरेव सर्वत्र तदङ्गत्वोपपत्तेः । यदि च सति सपक्ष
श्रावणत्वादिरसत्त्वेन निश्चित इति कृत्वा न स्वसाध्यस्य गमकः । तर्हि सति विपक्षे जलाशयादावसत्त्वेन निश्चितो धूमादिरेव स्वसाध्यगमकः स्यान्न वसति तस्मिन्नसत्त्वेन निश्चितः सत्त्वादिः । अथ कथ्यते--- असति खलु विपक्षे यस्य नास्त्येव सत्ता
स भजति बत सम्यम्धेतुतां सर्वथैव ॥ व्यभिचरति कथञ्चिन्नाविनाभावमुद्रा
यदिह शुचिमनीषाचक्षुषा वीक्ष्यमाणम् ॥ ४८७ ॥ नन्वेवं सम्पूर्णे सपक्षे तदेकदेशे वा यः सन्कृतकत्वप्रयत्नानन्त१५ रीयकत्वादिकः स कथं हेतुतां स्वीकुर्यादिति चेत् । असन्नेव सपक्षे हेतु
रित्यनवधारणात् । विपक्षेऽपि तदसत्त्वानवधारणमस्त्यिति न मन्तव्यम् । साध्याविनाभावित्वव्याघातानुषङ्गात् । तन्न सपक्षविपक्षयोरसत्त्वेन निश्चितोऽसाधारणः कथञ्चिदनैकान्तिकतामास्कन्दति । नापि सपक्ष
विपक्षयोरसत्त्वेन संशयितः श्रावणत्यादिरसाधारण इति द्वितीयः पक्षः । २० तयोस्तस्यासत्त्वेन निश्चितत्वात् । न च सपक्षे सत्त्वाभावे श्रावण
त्वादिहेतोरनन्वयत्वानुषङ्गः । अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्यान्वयस्य तत्र सद्भावात् । अन्यथानुपपतिरूपव्यतिरेकवत् । तन्न सपक्षे सत्त्वमपि हेतोर्लक्षणम् । नापि विपक्षेऽसत्त्वम् । तत्पुत्रत्वस्यापि गम
कत्वप्रसङ्गात् । श्यामेतरपुरुषलक्षणाद्विपक्षायावृत्तत्वात् । अथ न २५ विपक्षेऽसत्त्वमानं हेतुलक्षणं किन्त्वबधारणगर्भमसत्त्वं विपक्षेऽसत्यमेव
निश्चितमिति न चात्रावधारणनिश्चितिरस्ति । न हि यत्र श्यामत्वं
"Aho Shrut Gyanam"