________________
परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः वादिनः प्रतिवादिनो वा यः सिद्धस्तस्य साधनत्वप्रतिषेधः । प्रसिद्ध इत्यनेन च यः सन्दिग्धस्तस्येति ।
उक्तं ताथागतेनेदं स्वमते हेतुलक्षणम् । प्रक्रियामात्रमेतत्तु न्यायमार्गाक्षमान्वितः ॥ ४८६ ॥ तथा हि-न पक्षधर्मत्वादि रूपत्रयं हेतोर्लक्षणम् । विपक्षेऽप्यस्य ५ वर्तमानत्वात् । यद्यस्य विपक्षेऽपि वर्तते न तत्तस्य लक्षणं यथा सत्त्वमग्नेः । विपक्षेऽपि हेत्वाभासलक्षणे वर्तते च पक्षधर्मत्वादिरूपत्रयम् । तन्न हेतोस्तल्लक्षणमिति । अथान्यथानुपपत्तिनियमवत्रैरूप्यं हेतुलक्षणं न त्रैरूप्यमात्रम् । तथाविधं च तद्विपक्षे हेत्वाभासलक्षणे न सम्भवतीत्युच्यते तदसम्बद्धम् । एवं सति त्रैरूप्यकल्पनानर्थक्यप्रसङ्गात् । १० अन्यथानुपपत्तिनियमादेव हेतोर्गमकत्वोपपत्तेः । न खलु कृत्तिकोदयाच्छकटोदयाद्यनुमाने पक्षधर्मता सम्भवति । अथ कालाकाशादि भविष्यच्छकटोदयादिमत्कृत्तिकोदयादिमत्त्वात्पूर्डंपलब्धकालाकाशादिवदितीत्थमन्त्र पक्षधर्मताऽभिधीयते । तर्हि न कश्चिदपक्षधर्मत्वे हेतुः स्यात् । काककार्पोदेरपि प्रासादधावल्यादौ साध्ये जगतो धर्मित्वेन पक्ष- १५ धर्मत्वस्य कर्तुं सुशक्यत्वात् । तथा हि-जगत्प्रासादधावल्ययोगि काककायॆयोगित्वात् । तथा जगजलधिजातवेदःसमन्वितं महानसधूमयोगित्वात्पूर्वोपलब्धजगदिवेति । लोकविरुद्धोऽन्यत्राप्यविशिष्टः । तन्न पक्षधर्मत्वं हेतोर्गमकत्वाङ्गम् । नापि सपक्षे सत्त्वम् । अनित्यः शब्दः श्रवणत्वादित्यादेरसाधारणत्वादनकान्तिकत्वमिति चेत् । तद- २० युक्तम् । असाधारणत्वस्यानैकान्तिकत्वेन व्याप्त्यसिद्धेः । सपक्षविपक्षयोहि श्रावणत्वादिरसत्त्वेन किं निश्चितः संशयितो वा। अस. त्वेन निश्चितश्चेत्, कथमनैकान्तिकः सपक्षविपक्षयोरसत्त्वेन निश्चितो हेतुः पक्षे साध्याविनाभावित्वेन निश्चेतुमशक्य इति शक्यं वक्तुम् । सर्वानित्यत्वे साध्ये सत्त्वादेरहेतुत्वाप्रसङ्गात् । न खलु सत्त्वादिविपक्ष २५
१. विश्रावणत्वादि' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"