________________
[ परि. ३ सू. १३
तस्य हेत्वाभासस्यापि सम्भवादिति ॥ १३ ॥
तस्य त्रिलक्षणकादेः, हेतुवदाभासत इति हेत्वाभासस्तस्यापि । न केवलं सम्यग्धेतोरित्यपि शब्दार्थः । सम्भवाद्धनात् । इदमत्रैदम्पर्यम् । यदेव हि लक्ष्यासाधारणं स्वरूपं तदेव लक्षणतया ठोके ५ प्रतीतमव्यभिचारित्वात् । यथा भास्वररूपोष्ण स्पर्शवत्त्वमभेः । न च वैरूप्यादेर्लिङ्गासाधारणता । तत्पुत्रत्वादौ हेत्वामासेऽपि सम्भवादिति । पक्षधर्मत्वादिलक्षणत्रया- शिष्यः शौद्धोदनेः कश्चिदत्र प्रत्यवतिष्ठते ॥ वितस्यैव हेतुत्वं वदतो स्वकीयदर्शनाभीष्टं स्थापयन्हेतु लक्षणम् ॥ ४८५ ॥
बौद्ध
५१८
प्रमाणनयतत्त्वालोकालङ्कारः
खण्डनम् ।
तथा हि- हेती निश्चितान्यथानुपपत्त्ये कलक्षणत्वमनुपपन्नम् । तस्य १० पक्षधर्मत्वादिलक्षणत्रयान्वितत्वेनैव सम्यक्त्वोपपत्तेः । अन्यथाऽसिद्धत्वादिदोषानुषङ्गात् । न खलु पक्षधर्मत्वाभावे तस्यासिद्धत्वव्यवच्छेदः । सपक्ष एव सत्त्वाभावे च विरुद्धस्वव्युदासः । विपक्षे चासत्त्वनियमाभावेऽनेकान्तिकत्वनिषेधश्च कर्तुं शक्यः । उक्तं च-- “ हेतोत्रिष्वपि । रूपेषु निश्चयस्तेन वर्णितः । असिद्धविपरीतार्थव्यभिचारि१५ विपक्षतः || १ ||" अस्यायमर्थ:--- असति तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे व्याप्तेरनिश्चयाद्धेतोरगमकत्वं यतः स्यात्तेन कारणेन हेतोस्त्रिष्वपि रूपेषु पक्षधर्मान्वयव्यतिरेकरूपेषु निश्चयो वर्णित आचार्य - दिशागेन "प्रसिद्धस्तु द्वयोरपि साधनम्" इत्यादिना प्रमाणसमुचयादिषु । कस्य निरासेनेत्याह — असिद्धेत्यादि । विपक्षत इति, २० आधादित्वात् तृतीयार्थे तसिः । विपक्षेणेत्यर्थः । तदा ह्यासिद्ध विपक्षेण पक्षधर्मत्वनिश्चयो वर्णितः । विपरीतार्थो विरुद्धस्तस्य विपक्षेणान्वयः । व्यभिचार्यनैकान्तिकस्तस्य विपक्षेण व्यतिरेकनिश्चयः । प्रसिद्धस्तु द्वयोरपि साधनमित्यत्र च दिग्नागवचश्शकले द्वयोरपीत्यनेनै कस्य
१ ' आद्यादिभ्य उपसंख्यानम्' इति का. वा. ५-४-४४ ।
" Aho Shrut Gyanam"