________________
परि. ३ सू. १३] स्याद्वादरत्नाकरसहितः तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं
स्वार्थमिति ॥१०॥ तत्र तयोः स्वार्थपरार्थानुमानयोर्मध्ये । हिनोति गमयति परोक्षमर्थमिति हेतुः साधनं लिङ्गमिति यावत् । तस्य ग्रहणं निश्चयः । सम्बन्धो व्याप्तिरविनाभाव इत्यर्थः । तस्य स्मरणम्, ततो हेतुग्रहण- ५ सम्बन्धस्मरणे कारणं यस्य तत्तथा । किमित्याह । साध्यस्य वक्ष्यमाणलक्षणस्य विज्ञानं स्वार्थमनुमानमुच्यते । लिङ्गग्रहणसम्बन्धस्मरणयोश्चात्र कारणत्वं समुदितयोरेवावसेयम् । प्रत्येकं हि तत्कारणत्वे विस्मृतसम्बन्धस्याप्रतिपन्नसम्बन्धस्य च नालिकरद्वीपवासिनः क्वचिद्भूमादिलिङ्गग्रहणादेव केवलात्पावकादिसाध्यानुमानमुल्लसेत् । अगृहीतलिङ्गस्यापि च १० कस्यचित्प्राक्प्रतिपन्नसाध्यसाधनसम्बन्धस्मरणमात्रादनुमानं प्रादुभवेदिति ॥१०॥
हेतुग्रहणकारणकमित्युक्तमिति हेतोः स्वरूपं निरूपयतिनिश्चितान्यथानुपपत्त्येकलक्षणो हेतुरिति॥११॥
निश्चिता निर्णाता, अन्यथा साध्यमन्तरेणानुपपत्तिरघटनाऽन्यथानु- १५ पपत्तिरविनाभाव इत्यर्थः । निश्चिता चासावन्यथानुपपत्तिश्च निश्चिता. न्यथानुपपत्तिः। सैवैका लक्षणं यस्य स निश्चितान्यथानुपपत्त्येकलक्षणो हेतुरिति ।। ११॥ एतल्लक्षणव्यवच्छेद्यमर्थं व्यक्तीकुर्वन्नाह
न तु त्रिलक्षणकादिरिति ॥ १२॥ २० त्रीणि लक्षणानि रूपाणि पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वाख्यानि यस्यासौ त्रिलक्षणकः स आदिर्यस्य पञ्चलक्षणकादेः स विलक्षणकादिः पुनर्हेतुर्न भवतीति ।। १२ ॥
अत्रैवोपपत्तिमाह--
"Aho Shrut Gyanam"