________________
५१६ प्रमाणनयतत्वालोकालङ्कारः परि. ३ सू. ८
न तार्किकपीतिकरम् । तर्कस्य संवादसंदेहे हि कथं निःसन्देहानुभानोत्थानस्यापत्तितो निःसन्देहभनुमानमिच्छता साध्यसाधनसम्बन्धपाहिप्रमाणं निश्चितसंवादमेव स्वीकर्तव्यम् । तन्न विसंवादित्वमपि ।
तर्कस्य प्रमाणत्वे तर्हि तस्य किं निमित्तमिति चेत् । समारोपव्यवच्छे५ दकत्वमिति ब्रूमः । तथा हि, तर्कः प्रमाणं समारोपव्यवच्छेदकत्वाद्यदित्थं तदित्थं यथानुमानम् । तथा च तर्कस्तस्मात्प्रमाणमिति । एवं च,
तीतानागतवर्तमानसमयश्लिष्टानिधूमादिके
व्याप्तिं वस्तुनि न ग्रहीतुमिह यत्सर्वोपसंहारतः ।। प्रत्यक्षप्रमुखं प्रमाणमयते शक्तिं ततश्चागतं
प्रामाण्यं सुदृढोक्तयुक्तिबलतस्तर्कस्य तन्निश्चये ॥ ४८३ ॥ प्रथमतः इह सावदर्शनं नास्तिकानां
विघटितमनु तस्माद्योगपक्षो निरस्तः ।। तदनुसुगतशिष्यैर्जल्पितं दोषजालं
यदिह किमपि युक्त्या सर्वथा तच्च भग्नम् ॥ ४८४ ॥८॥ १५ एवं तर्क निर्णीयेदानीमुद्देशक्रमानुसारेणानुमानं व्युत्पादयिष्यंस्तद्गतां सङ्ख्याविप्रतिपत्तिं तावन्निरस्यति
अनुमानं द्विप्रकारं स्वार्थ परार्थं चेति ॥ ९॥ ___ अनु लिङ्गग्रहणसम्बन्धस्मरणयोः पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनेनेत्यनुमानं वक्ष्यमाणलक्षणम् । द्वौ प्रकारौ भेदौ वक्तुं न शक्यमिति लक्षणकथनाङ्गं प्राक्प्रकारभेद उक्तः । तमेव विशेषतो दर्शयति । स्वार्थ परार्थं चेति । स्वस्मै इदं स्वार्थ येन स्वयं प्रतिपद्यते तत्स्वार्थमित्यर्थः । परस्मै इदं परार्थं येन परं प्रतिपादयति तत्परार्थमित्यर्थः । चः समुच्चये ॥९॥
प्रथमप्रकारं प्रकाशयन्नाह१ तीतानागतेत्यत्राकारलोपसिद्धिश्चिन्त्या ।
"Aho Shrut Gyanam"