________________
परि. ३ सू. ८ स्याद्वादरलाकरसाहतः गृहीतमात्राध्यवसायित्वात्सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावः । तथा च कथमनिश्चितप्रतिबन्धत्वाद्देशान्तरादौ साध्यं साधनं गमयेत् । ननु "कार्य .धूमो हुतभुजः कार्यधर्मानुवृत्तितो" विशिष्टप्रत्यक्षानुपलम्माभ्यां निश्चितः स देशान्तरादौ तदभावेऽभवंस्तत्कार्यतामेवातिवतेत्याकस्मि. को धूमः पावकनिवृत्तौ न कापि. निवर्तेत । नापिः वहिसद्भाव एवं स: ५ स्यादित्यहेतोस्तुरङ्गशृङ्गस्यैव धूमस्यासत्त्वाल्कचिदप्युपलम्भो न भवेत् । तथा च कीर्तिना कीर्तितं वार्तिके- " कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः । स भवंस्तदभावेऽपि हेतुमत्तां विलङ्घयेत् ॥१॥" इति चेत् । तदपि न सुस्थम् । इत्थं व्याप्तिप्रतिपत्तौ तन्निश्चयकालोपपलब्धे व्यापके न व्याप्तिः स्यात् । तस्यैव तथा निश्चयान्न तादृशस्या- १० पि । असाध्यव्याप्तत्वग्रहणे तद्राहिणो विकल्पस्य कथमगृहीतग्राहित्वं न स्यात् । प्रत्यक्षगृहीतादधिकग्राहित्वात् । तथा च प्रमाणान्तरमसौ स्यात् । तच्च किमन्यत्तर्कप्रमाणादिति । यपि स्वभावहेतौ . त्वविनाभावप्रतीतिविपक्षे बाधकानुमानादित्युक्तम् । तदप्युक्तिमात्रम् । यतो विपक्षे. बाधकानुमानमपि प्रसिद्धाविनाभावं सत्स्वसाध्यसिद्धये प्रभ- १५ वति । अविनाभावश्च तत्राप्यनुमानान्तरेण सिद्धयेत्तेनैव वां । आये पक्षेऽनवस्था । द्वितीय वितरेतराश्रयः । तत्प्रत्यक्षं नाविनाभावसिद्धौ धत्ते प्रौढिं लैङ्गिकी नापि बुद्धिः ।। एकस्तर्कस्तत्र सामर्थ्यमुद्रां निष्प्रत्यूहां हन्त तस्माद्विभाः ॥४८२॥
एवं च न तर्कस्याप्रमाणतायां गृहीतायां प्राहित्वमपि निवृत्तं २० सम्भवति । अथ विसंवादित्वं तत्प्रतिपाद्यते । तदपि नोपपन्नम् । स्वगोचरे तर्कस्याविसंवादित्वात् । तर्कस्य हि गोचरः साध्यसाधनयोः साकल्येन व्याप्तिस्तस्यां चास्याविसंवादकत्वं सुप्रसिद्धमेव । अन्यथानुमानस्यापि कथमविसंवादकत्वं स्यात् । न खलु तर्कस्यानुमाननिबन्धनसम्बन्धविषये संवादानुपपत्तावनुमानस्यापि संवादः सम्भवति । २५ नन्वस्य निश्चितसंवादो नास्ति विप्रकृष्टार्थविषयत्वादिति चेत् । तदपि
"Aho Shrut Gyanam"