________________
प्रमाणनयतत्त्वालोकालङ्कारस्प रि. ३ सु. ८ इत्थं प्रत्यक्षानुपलम्भपञ्चकेनैकस्यामपि व्यक्ती कार्यकारणभावावगमा भवत्यमेः कार्यं धूम इति । यश्च यत्कार्यः स तेन नियतः । यदि तु तेन नियतो न स्यात्तदा तन्निरपेक्षत्वान्नित्यं सत्त्वमसत्त्वं वा तस्य स्यात् । ततश्चायमर्थः सम्पन्नः । येयं कार्यहेतौ सार्वत्रिकी विना५ भावप्रतीतिरुपजायते । यदाह-" धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्भाम्यामिति पञ्चभिरन्वयः ॥” धूमाधीधूमानुपलम्भ इत्यर्थः । स्वभावहेतौ त्वविनाभावप्रतीतिविपक्षे बाधकानुमानात् । यथा क्षणिकत्वानुमानं सत्त्वहेतौ व्यापकानुपलम्भात् ।
तथा ह्यर्थक्रियाकारित्वलक्षणं सत्त्वमर्थक्रिया च क्रमयोगपद्याभ्यां व्याप्ता। १० ते च क्षणिकत्वान्निवर्तमाने स्वव्याप्यां सत्त्वरूपामर्थक्रियामादाय निव
तते । कस्मात्पुनरक्षणिकाक्रमयोगपद्ययोर्ध्यावृत्तिरिति चेत् । नानारूपत्वात् । कालतः पौर्वापर्यं हि क्रमस्तद्विपरीतं तु योगपद्यमित्थं चैते नानारूपे । अक्षणिकत्वं चैकरूपता । एकरूपतानानारूपत्वे चैकत्र
विरुद्धे । ततोऽक्षणिकाक्रमयोगपद्यनिवृत्तौ निवर्तमानं सत्त्वं क्षणिक १५ एवावतिष्ठते । प्रकारान्तरासम्भवात् । न खलु क्षणिकाक्षणिकव्यति
रिक्तस्तृतीयः प्रकारोऽस्ति । यतस्तत्रास्य वृत्तिराशङ्कथेत । अनुपलब्धे: पुनः स्वभावहेतावन्तर्भावान्न तत्र पृथगविनाभावग्राहकप्रमाणचिन्तेति । अत्रोच्यते । यत्तावदुक्तं कार्यहेतौ तावच्यातेः प्रतिपत्तिः प्रत्यक्षानुपलम्भपञ्चकाज्जायत इत्यादि तन्नोपपत्तिक्षगम् । उपलम्भानुपलम्भ२० स्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयतया देशादिव्यव
हितसमस्तपदार्थगोचरवायोगात् । अविचारकतया च प्रत्यक्षं यावान्कश्चिद्भूमः स सर्वो देशान्तरे कालान्तरेऽग्निजन्माऽन्यजन्मा वा न भवतीत्येतावतो व्यापारान्कतुं समर्थमिति कथं व्याप्तिस्तद्विषयः
स्यात् । अथ पुरो व्यवस्थितार्थेषु प्रत्यक्षं व्याप्तिं प्रतिपद्यमानं सर्वोप२५ संहारेण प्रतिपद्यत इति कीर्त्यते । तदप्यकीर्तिकरम् । स्वाविषये प्रत्यक्षस्य सर्वोपसंहारानुपपत्तेः । प्रत्यक्षपृष्ठभोवतो विकल्पस्यापि प्रत्यक्ष
भाविनो' इति म. पुस्तके पाठः ।
"Aho Shrut Gyanam"