________________
परि. ३ सू. ] स्याद्वादरत्नाकरसहितः
५१३३ सन्न्यायदर्शनविवेचनचारुबुद्धे नैयायिकत्वमपि ते कथमन्यथा स्यात् ॥ ४७९ ॥
विकल्पमात्रं ननु तर्क पुष विकल्पमानत्वातों न प्रमाणमिति वदतां बौद्धानां प्रमाणता तत्कथमस्य युक्ता ॥ मतानर्देशपूर्वक इत्याहुरत्र स्फुरिताभिमानाः खण्डनम् ।
समन्तभद्रप्रणयैकचित्ताः ॥४८०॥ न तेऽपि सन्न्यायपथानुयायिनः स्वदर्शनोद्धृतकुवासनाहताः ॥ 'न तर्कमानत्वविघातकारकं यतो निमित्तं बत तैः प्रकाशितम् ॥४८१॥ ___ अथ तर्कस्याप्रमाणतायां विकल्पमात्रत्वाख्य निमित्तं प्रकाशितमेवे. ति चेत् । ननु विकल्पमात्रत्वमिति कोऽर्थः । किमर्थानालम्बनज्ञानमात्र- १० त्वमप्रत्यक्षत्वं वा । प्रथमपक्षोऽसिद्धः । साध्यसाधनसम्बन्धालम्बनत्वेन निरालम्बनत्वस्य तर्केऽनुपपत्तेः। द्वितीयपक्षस्तु न नः क्षतिकारी । परोक्षविशेषत्वेन तर्कस्याप्रत्यक्षतयाऽस्माभिरप्यभ्युपगमात् । न चाप्रत्यक्षज्ञा. नरूपत्वात्तोऽप्रमाणमिति तर्कणीयम् । अप्रत्यक्षज्ञानरूपस्याप्यनुमानस्य प्रमाणत्वेनोभयसम्प्रतिपन्नत्वात् । अथ सविकल्पकज्ञानस्वरूपत्वं तर्क- १५. स्य विकल्पमात्रत्वशब्दाभिधेयत्वेन विवक्षितम् । तदपि न पीडाकरमस्माकम् ! सविकल्पकज्ञानरूपत्वेऽप्यनुमानस्येव तर्कस्यापि प्रमाणत्वानतिपातात् । व्यवस्थापित प्रपञ्चतो निखिलप्रमाणानां कथञ्चित्सविकल्पकत्वमाद्यपरिच्छेदे । तन्न विकल्पमात्रत्वं तर्कस्याप्रमाणतायां निमित्तमवधानार्हम् । अथ गृहीतग्राहित्वं तदभिधीयते । तदप्ययुक्तम् । यतः साध्य- २०. साधनयोः सामस्त्येन व्याप्तिस्तर्कस्य विषयो न चैतत्प्रतिपत्तौ प्रमाणान्तरं प्रभवति । अथोच्यते । कार्ये हेतौ ताबद्ध्याः प्रतिपत्तिः प्रत्यक्षानुपलम्भपञ्चकाजायते । अमिधुमव्यतिरिक्तेषु हि परिदृश्यमानेष्वपि भूतलाद्यथेषु प्रथमं धूमस्यानुपलम्भ एकः । तदनन्तरममेरुपलम्भस्ततो धूमस्येत्युपलम्भद्वयम् । पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भ इति २५ द्वावनुपलम्भौ । अनुपलम्भोऽपि प्रत्यक्षविशेष एव लक्षयितव्यः ।
"Aho Shrut Gyanam"