________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. इ.सू. ८
व्याप्तिं निश्विनुयात् । तथा हि । यद्णुस्वभावं सत्सकृदशेषार्थेन न सम्बध्यते । यथा परमाणुः । अणुस्वभावं च मवत्कलितं मन इति । अथ साक्षान्मनसः समस्तायैः सम्बन्धाभावेऽपि परम्परया सम्बन्धो भविष्यति । मनसा हि साक्षादात्मा संयुज्यते । तेन च संयुक्ताः ५ सर्वेऽस्यादयो धूमादयश्च साध्यसाधनविशेषास्तस्य व्यापकत्वादिति चेत् । तदपि न्यायशून्यम् । एवं सर्वस्य सर्वज्ञताप्रसङ्गात् । साध्यसाधनवनिखिलार्थानां मनसा सह सम्बद्धसम्बन्धसंभवात् । किं चासौ सम्बद्धसम्बन्धोऽपि मनसः सद्भिरेवार्थेर्नासद्भिरतीतानागतैस्सत्कथं तत्र व्याप्तिप्रतिपत्तिः स्यात् । न चात्मनो व्याप्तत्वं सिद्धम् । २० तस्याञे विस्तरतः प्रतिषेत्स्यमानत्वात् । तत्कथं सम्बद्धसम्बन्धगन्धोऽपि स्यात् । ततो दृष्टान्तमात्रे साध्यसाधनयोर्व्याप्तिस्त्वया स्वकिर्त्तव्या न तु समस्तासु वह्निधूमव्यक्तिषु । तथा चानुमानानुत्थानम् । साध्यधर्मिणि साध्यधर्मेण सह हेतोर्व्याप्तेिरनिश्चयात् । ततश्चोपलम्भानुपलम्भसम्भव त्रिकालवर्त्तिवह्निधूमादिविषयमस्पष्टं तर्काख्यं प्रमाणमुररीक१५ व्यम् । ननु यावान्कचिद्धूमः स सर्वोऽप्यमिजन्मा भवतीत्येवं प्रकारस्येह विकल्पज्ञानस्य सम्बन्धग्राहिप्रत्यक्षफलत्वान्न प्रामाण्यमिति चेत् । एतदप्यसमीचीनम् । प्रत्यक्षस्य सम्बन्धग्राहित्वप्रतिषेधात् । तत्फलत्वेन चास्याप्रामाण्ये विशेषणज्ञानफलत्वाद्विशेष्यज्ञानस्याप्यप्रामाण्यानुषङ्गः । अथ हानोपादानोपेक्षा बुद्धिफलत्वात्तस्य प्रामाण्यमङ्गीक्रियते । तर्हि तर्क२० ज्ञानस्यापि प्रमाणत्वमस्तु । तस्यापि व्याप्तिप्रतिपातिफलत्वात् । अथ प्रमाण विषयपरिशोधकत्वान्न तर्कः प्रमाणमित्युच्यते । तदपि परिफल्गु । अप्रमाणेन शोधनविरोधात् । मिथ्याज्ञानवत्प्रमेयार्थवच । तस्मादवस्थितमिदं तर्कः प्रमाणमबाध्यमानविषयत्वात्प्रत्यक्षवत् ।
:
५१२
२५
ततश्व—
तर्कः प्रमाणमिति युक्तिबलेन सिद्धमर्थं गृहाण परिमुच्य मुधाभिधानम् ||
"Aho Shrut Gyanam"